पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
ऋतुवर्णनपद्धतिः


मन्दपुण्यो भाग्यहीनो - न पिबति - भाग्यसंपन्नस्तु पिवतीत्यर्थः । हंसोदकलक्षण मुक्तं द्रव्यरत्रमालायाम् -  वह्नितप्तमहिमांशुरश्मिभि शीत मम्बु शशिरश्मिभिर्निशि।  एवमेव तदहर्निशं स्थितं तच्च हंसजलनामकं स्मृतम् ' इति- एतत्यानेन गुणसंपत्तिरपि तत्रौवोक्ता -  'प्रसादकं त्रिदोषघ्नं हा लघु च शीतलं ।  वृष्यं मनोहरं स्वादु विषघ्नं कान्तिकृत्परम् ॥ इति- शरद्येतत्पाने नियमश्चाप्युक्तोऽन्यत्र -  कर्पूरागरुजं (१) सिताद्यभिरसै र्हंसोदकं वासितं ।  साौधं चातिमनोहरं शिशिरतो मुग्धाङ्गनालिङ्गनम् ।'  स्रग्धरानृत्तम् ।।

हेमन्ते दधिदुग्धसर्पिरशना मञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपु : छिन्ना विचित्रैरतैः ।
वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदळपूगपूरितमुखा धन्याः सुखं शेरते ॥ ९७

 व्या.---अथ द्वाभ्यां हेमन्तं वर्णयति-हेमन्त इति.-हेमन्ते हेमन्तऋतौ । दधि। प्रसिद्धं-दुग्धसर्पिषी क्षीरघृते - तान्यशनं येषां ते तथोक्ता - ननु दुग्धाज्यादीनां शैत्यावसादकत्वेन सेवनं भवतु - दधिसवनस्य तदतिरेककरत्वात्तत्सेवनं कथं युक्तमिति चेन्न-तस्याप्या युष्कामस्य हेमन्ते सेवनोपयोगात् - तदुक्तं चारुचर्यायामृतुचर्याप्र:- स्ताव सर्वज्ञभोजराजेन -