पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
विद्वत्पद्धतिः

शास्त्रपरिज्ञानाभावात् कुत्सितपरिज्ञानिमिः । मणयः अमूल्या- अपीति भावः। अर्घतः मल्यतः पातिताः यदि बहुमूल्या- मणयोऽल्पमूल्याः कृता इत्यर्थः । कुत्स्याः स्युः किं । न स्युरेवेत्यर्थः- अयमर्थः - विद्वद्धिः प्रभुसमाश्रयेणैव स्थातव्यं "सदाश्रयेण शोभन्ते- पण्डिता वनिता लता" इति न्यायात् ; तत्र नते यदि विद्वन्मनो- रथं पूरयेयुस्त तेषामेव कुत्सितत्वं । विद्वांसस्तु कुपरीक्षकोपहतमणय- इव न कुत्स्या इति ; अतः श्रेयःकाभैः प्रभुमिः तन्मनोरथपूरकैरेव- अबितव्यमिति तात्पर्यम्। शार्दूलविक्रीडितं वृत्तं-लक्षणं तूक्तम् ।।

हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा
यार्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
येषां तान्प्रति मान मुज्झत नृपाः कस्तै स्सह स्पर्धते? ॥ १३ ॥

 व्या... अथ विद्याधनस्य प्रसिद्धधनवैलण्यवर्णनद्वारा विदुषा- मुत्कर्षमापादयन्नेतेषु गौरवेण विश्वासोत्पादनार्थं नृपान् संबोधयति . हर्तुरिति.---यद्विद्याख्यं धनं। हर्तुश्चोरादेः - 'हर्तुमिति' तुमुन्नन्तपाठे अपहर्तुमित्यर्थः । गोचरं न याति विषयतां न प्राप्नोतीति - भावप्र- धानो निर्देशः - तस्यात्यन्तदुर्गहत्वादिति भावः । तथा सर्वदा काल- त्रयेऽपि। किमप्यनिर्वाच्यं । शं मुखं । पुष्णाति वर्धयत्ति - 'अर्थाना- मार्जने दुःखमि' ति स्मरणात् - प्रसिद्धं तु नैवमिति भावः । अनिशं सर्वदा। अर्थिभ्यो विद्यार्थिभ्यः यायकेभ्यश्च । प्रतिपाद्यमानं व्याख्याय- माणं दीयमानमपि च । परामुत्कृष्टां - वृद्धिमभ्युच्छ्रया प्राप्नोति विद्याया व्याख्यानेनाभिवृद्धिसंभवादिति भावः । तथा कल्पान्तेषु प्रळयेष्वपि ।