पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
शृङ्गारशतके


विकसनं शिशिरर्तुलक्षणं तथाऽपि तत्सत्यासत्त्योक्तमिति न विरोधः । प्रळयादागतं प्रालेयं हिमं * 'तत आगत' इत्यण् केकयमित्र युप्रळयानां यादेरिय' इति । यशब्दस्य इयादेश:- प्रालेयवातैस्तुषारवा युभिः - प्रचलं चञ्चलम् - अत एव विलसितं प्रकाशमानमुदारं रम्यं च - मन्दाराणां संतानकतरूणां धाम स्थानं - यस्य तस्मिन् - यद्वा - मन्दाराणां पारिभद्रकतरूणां - धामेति उभयत्राप्युपचयहेतु- त्वादिति भावः - नि.-'पारिभद्रो निम्बतरूर्मन्दारः पारिजातक' इत्यमरः । एवं भूते काले हेमन्तसमये। येषां यूनां तरुणानां तुहि- नक्षोदे शीतनिवारणे - दक्षा कुचकुम्भयोरौष्ण्यसंभवेन तदालिङ्गाना- न्निवारणसमर्थेत्यर्थः। मृगाक्षी तरुणी । क्षणमल्पकालमपि * अत्यन्तसंयोगे द्वितीया। कण्ठलग्ना कण्ठावसक्ता - कण्ठालिङ्गन, तत्परेति यावत् । नो न भवतीत्यर्थः। तेषां यूनां । आयामाः अत्य- न्तदीर्घा - यामाः प्रहराः - यस्यास्सा विरहवेदनावशात्तथा प्रतीय- मानयामेत्यर्थः । यामिनी रजनी यमसदनसमा यमलोककल्पा - दुरन्तदुःखावहेत्यर्थः। याति गच्छति तदानीमङ्गनाप्लवालिङ्गनमन्त- रेण दुरन्तविरहवेदनामहानद्यास्तरितुमशक्यत्वादिति भावः - नि.- 'द्वौयामप्रहरौ समौ । इति - 'रजनी यामिनी तमी इति चाप्यमरः।। अनुप्रासोपमयोश्शब्दार्थालंकारयो स्संसृष्टिः।। स्रग्धरावृत्तम्।।

चुम्बन्तो गण्डभित्तीरलकवतिमुखे सीत्कृतान्यादधानाः .
वक्षस्सूरकञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ।
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽशुकानि
. व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः॥