पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ वैराग्यशतकम् ॥

॥ तृष्णादूषणम् ।।

चूडोत्तसितचन्द्रचारुकलिकाचंचच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अन्तःसार्जदपारमोहतिमिरप्राग्भारमुच्चाटयं-
श्चेतस्सदनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १

 व्या.--चूडेति.--चूडोत्तंसितस्य शिरोभूषणीकृतस्य - च- न्द्रस्य - चारुकलिकया मनोहरकोरकयेव - चञ्चच्छिखया प्रकाशमा- नाग्रेण - भास्वरः प्रकाशमानः। विलोलः चञ्चलः - काम एव । शलभः - सः लीलया विलासेन - दग्धो येन। श्रेयसां शुभानां . दशासु अवस्थासु - अग्रे पुरतः - स्फुरन् प्रकाशमानः । अन्तर्मनसि- स्फूर्जत: विजृम्भमाणस्य - अपारस्य अनन्तस्य - मोहतिमिरस्य - प्राग्भारं गुरुं प्राक्प्रदेशम्। उच्चाटयन् निरस्यन्। ज्ञानप्रदीपः ज्ञान- प्रकाशकः। हरः भक्तानां ज्ञानाज्ञानकृतमानसिकवाधिककायिकपाप- हारी भगवान् साम्बशिवः। योगिनां सनकादीनां। चेतस्सद्मनि मनस्येव गृहे विजयते सर्वोत्कर्षेण वर्तते ॥

 प्रथमतः चूडोत्तंसितेति वाक्ये घन्द्रपदग्रहणात् भक्तानां ताप हारीत्यर्थो लभ्यते। लीलादग्धेति वाक्ये कामशलभपदग्रहणात् महा- शत्रुसंहारीति लभ्यते । अन्तःस्फूर्जदिति वाक्ये मोहतिमिरपदग्रहणात् यथा उदितस्सूर्यः सर्वतिमिराणि नाशयति तथा अयमपि अज्ञाननाशं