पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
तृष्णादूषणम्

करोतीति । चेतस्सद्मनीति वाकये ज्ञानदीपपदग्रहणात् कामक्रोधादि- पङ्करहितनिर्मलचित्तानां निस्सङ्गानां योगिनां चतसि यथा वर्तते तथा रक्तानां सर्वाज्ञाननाशनं कुर्वन् ज्ञानप्रदीपो हरो विजयत इत्यभिप्रायः ॥

भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं
त्यक्तवा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृोवाशङ्कया काकव-
न्तृष्णे जृम्भसि पापक पिशुने नाद्यापि तुष्यसि ॥ २

 व्या.----अथ रागस्य तृष्णामूलकत्वात्तद्गर्हणं विना न वैरा - ग्यसिद्धि रित्यभिप्रेत्य तत्सिद्धार्थमादौ नवत्तत्परिपन्थि भूतां तृष्णा दूषयति-भ्रान्तमित्यादि नवभिश्लोकॅः । तत्र प्रथमं स्वकर्मकप्टनिवे - दनपूर्वक तृष्णा संबोध्य त्रिभिर्दूपयति - भ्रान्तमिति.--अनेकैर्बहुभि द्रुगॉः पार्वत वाक्ष जलदुर्गादिभिः - विषमं बिकटं दुस्संघारमित्यर्थः देशं भ्रान्तं संचरितं। तथाऽपि । किंचि दल्पमपि । फलं धनं। न प्राप्तं न लब्धं - बहुफलापेक्षयैव दुर्गमविदेशसंचारः कृतः • फलंत्वी पदपि न प्राप्तमित्यर्थः - अत्र देशशब्दस्य नपुंसकत्वं निघण्ट्वन्तरेषु मृग्य - यद्वा - देशमुद्दिश्य भ्रान्तम् । भावे क्तप्रत्ययः - अथवा - नि. नीवृजनपदॉ देशविषयावि' त्यभिधानात् - पुंलिङ्गस्यापि देशशब्दस्य नपुंसकत्वसंबन्ध मनुवर्तत इति भाष्कारप्रयोगादिष्यते। तथा। उचितमनुरूपं । जातिकुलयोः - जातिः ब्राह्मणत्वादिः - कुलंसद्वंश:- तयोरभिमान मित्यर्थः * सापेक्षत्वेऽपि गमकत्वास्समासः । त्यत्कव विसृज्य। निष्फला फलशून्या। सेवा परिचर्या । कृता। धनाड्याना