पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
तृष्णादूषणम्

विशेष निक्षिप्य यावत्प्राणं पृत्कारैस्संतापिता इत्यर्थः - तथाऽपि न किंचिज्जातमिति भावः ध्माशब्दाग्नि (व) संयोगयोरि त्यस्मा- द्धातो. कर्मणि क्तः - नि-धातुर्मनश्शिलाद्यद्रेरियमरः • अन्यत्रा प्युक्तम्---

"सुवर्णरूप्यताम्राश्महरिताला मनश्शिलाः ।
गॉरिकाञ्जनकाश्मीरलोहसीसास्सहिङ्गलाः ।
गन्धकाभ्रकमित्याद्या धातको गिरिसंभवाः ।।" इति-

 अत्र सुवर्णरूप्यव्यतिरेकेणैव योज्यमन्यथा प्रकृतासंगतेरिति! तथा सरितां पतिस्समुद्रो। निस्तीर्णः द्वीपान्तरेषु वाणिज्येन बहुधनं संपा- दयिष्यामीति सांयात्रिकभावेन विलचित्त इत्यर्थः । नृपतयो राजानश्च यन्नेन छन्दानुवर्तनम्पप्रयत्नेन। संतोषिताः। तथा मन्त्राराधनतत्प- रेण मन्त्रजपतात्पर्यवता मनसा हेतुना । श्मशाने प्रेतभूमौ । निशा रात्रयो। नीताः यापिताः भूतप्रेतपिशाचादिभ्यो भयमविगणय्य निध्यादिप्रदर्शकदेवताभिमुखीकरणसाधनमन्त्रजपतात्पर्येण निशासु श्मशाने स्थितमित्यर्थः ॥ तथाऽपि मया काणवराटकः अन्धकप- दोऽपि न प्राप्तः - धनं तु दूरापास्तमिति भावः नि.- कपर्दश्च वराटक' इति हलायुधः। अतः। तृष्णे। सकामा सफलमनोरथा । भव । त्वत्प्रतिज्ञातार्थनिष्पत्तेः सिद्धसंकल्पा भवेत्यर्थः; इत्थमनर्थहेतु- भूतया तृष्णया वृथा व्यापारजनितश्रम एवावशिष्टो न वाञ्छितलाभ इत्यतस्तदुन्मूलने यन्त्रः कर्तव्य इति भावः ॥

खलालापास्सोढाः कथमपि तदाराधनपरै-
र्निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।