पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
नीतिशतके

निधनं नाशं - न प्रयाति न नश्यतीत्यर्थः। कल्पान्तेष्वपीति बहु- वचनग्रहणं विद्याधनस्यात्यन्तविनाशाभावप्रकाशनार्थम् । प्रसिद्धं तूक्त- विपरतिमिति भावः • तदुक्तम् ।।

 'नभोगहार्या न च बन्धुहार्या न भ्रातृहार्या न घ राजहार्या। खदेशमित्रं परदेशबन्धु र्विद्यासुधां ये पुरुषाः पिबन्ति' इति । तद्विद्याख्यं विद्याभिधानं। यत्तदोर्नित्यसंबन्धात्तच्छब्दस्याध्याहारः । अन्तर्धनमभ्यन्तरस्थवित्तं । येषां पुरुषाणामस्तीति शेषः । अत स्तान्विद्याधनान्प्रति। हेनृपाः राजानो मानं कोपं दुराग्रहमिति यावत्। उज्झत तैर्विद्वद्भिस्सह कः पुमान् - स्पर्धते निगृह्णाति? न कोऽपीत्यर्थः॥ ततस्ते सर्वदा गौरवेण बहुमाननीया इति भावः।।

 अत्रोपमानात् प्रसिद्धधनादुपमेयस्य विद्याधनस्याधिक्यकथ- नाव्द्यतिरेकालंकारः - 'उपमानाद्यदन्यस्य व्यतिरेकस्स एव स' इति- काव्यप्रकाशकारलक्षणात्। वृत्तं पूर्ववत् ।।

परिगतपरमार्थान् पण्डितान्मावमंस्था-
स्तृण मिति लघु लक्ष्मीर्नैव तान् संरुणद्धि ।
अभिनवमदरेखाश्यामगण्डस्थलानां
न भवति बिसतन्तुवारणं वारणानाम् ॥ १४ ॥

 व्या... अथ त्वदीयलक्ष्मीर्न तेषां प्रतिबन्धिका। अतस्तेषु- बहुमानाचरणतत्परेणैव भवितव्यमिति सदृष्टान्तं राजानं संबोधयति - परीति.-हेनृप। परिगतपरमार्थान् विज्ञाततत्त्वार्थान - “ सर्वे गत्यर्थाः ज्ञानार्था"इति न्यायात् - अथवा प्राप्तपुरुषार्थान्। पण्डि-