पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
वैराग्यशतके

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषत-
स्सोढो दुस्सहशीतवातपवनकेशो न तप्तं तपः ।
ध्यातं वित्तमहर्निशं नियनितग्राणॅर्नशम्भोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलॅर्वंचिताः॥ ६

 व्या...---अथ यद्यप्युचितमेवाचरितं तथाऽपि तस्या याथा तथ्यान्न फलोफधायकमभूदित्याह-क्षान्तमिति..---सत्येवाऽपि परि - भवहेतौ मनसोऽनुद्वेगः क्षमा - तया न क्षान्तं न सोढम् - अवमा - नादिकमिति शेषः - किं त्वशक्ततयैवेति भावः । तथा । गृहे - उचितं युक्तं यत् सुखं मृष्ठान्नभोजनकळत्र संभोगादिजनितानन्दादि । तच्च। संतोषतः किमनेन तुच्छेनेत परितोषान्न त्यक्तं - कित्वसं भावित ब्रह्मचर्येणवेति भावः । तथा दुस्सहा स्सोहु मशक्या: - ये शीतवाततपनैः - ग्लशा दुःखानि - ते । सोढाः क्षान्ताः - देहया त्रार्थं देशान्तरसंचारे तेपामनुभूतत्वादिति भावः । तपश्चान्द्रायणा - दिकं तु । न तप्त न चरितं तथा। नियमितप्राणै रन्तः प्रत्याहतप्राणै- रस्माभिः । अहश्च निशा चाहर्निशम् - अहोरात्रं * * अचतुरे' त्यादिना निपातनात्साधुः। वित्तं । ध्यातं चिन्तितं शंभोः पदं न ध्यातं । अतो मुनिभि र्यद्यत्कर्म कृतम् अवमानसहनादिकमाच - रितं । तत्तदेव कर्म अस्माभिश्च कृतं। किंतु तैस्तैस्तत्तत्कर्मनियतैः । फलैर्वाञ्चिता वर्जिताः । तेषामयथाचरणेन वैगुण्यात्फलभाजो न जाता. इत्यर्थः ; क्षन्त्यादिनैव यद्यवमानादिकं क्षान्तं स्यातर्हि फल - लाभो भवेदेव - नतु तदाचरितम् ; अयं चानर्थस्तृण्णादुर्विलसितमूल एवेति फलितार्थः ॥ शार्दूलविक्रीडितंवृत्त - लक्षणं तूक्तम् ।।