पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
वैराग्यशतके

शिरः मस्तकम् । अङ्कितं चिह्नितं - शिरः केशादयो धवळा जाताः इत्यर्थः । तथा गात्राणि करचरणाद्यवयवाः - अवयविवाचिनो गात्रशब्दस्यावयवार्थत्वं लक्षणया वेदितव्यम् - अवयवावयविनो रभे दविवक्षया वा-न च गात्रबाहुळ्यविवक्षायां यथा श्रुतमेव समञ्जस- मिति वाच्यं - मुखं शिरइत्येकवचनप्रयोगविरोधात् - ननु तत्रापि - जात्येकवचनग्रहणे न कोऽपि विरोध इति चे-किमनेन बकबन्धनप्र - यासेनेत्यलमतिप्रसङ्गेन। शिथिलायन्ते शिथिलानीवाघरन्ति जराज- र्जरभावविश्लिप्ट संधिवन्धतया कार्यकरणासमर्थ न जायन्त इत्यर्थः । किंतु । एका तृष्णा । तरुणायते तरुणीवाधरति - बलिया जाते त्यर्थः। जरया सर्वमप्येवं विशकलितं न तृष्णोति महदेतदाश्चर्य मितिभावः - उभयत्रापि , ' कर्तुः क्यङ्सलोपश्चे' ति क्यङ् ' अकृत्सार्वधातुकयो र्दीघे' इति दीर्घः ॥

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपिगळित-
स्तमानास्वर्यातास्सपदि सुहृदो जीवितसनाः ।
शनैर्यष्टु बत्थानं घनतिमिररुद्रे च नयने
अहो मूदः काश्रस्तदपि भरणापायचकितः ॥ ९

 व्या..निवृत्तेति — भोगेच्छा विषयानुभवस्पृहा । निवृत्ता। विगता। अत्र जरादूपणाभिनिवेशपारवश्येनेत्थमुक्तं- तेन · तृष्णॅका- तरुणयत' इत्यविरोधः। पुरुप इति यो। बहुमानस्सम्मानस्सोऽऽपि गळितः अपगत-स्तत्प्रयोजकपौरुषाधपायादिति भावः-यद्वा-पुरुषाणां बहुमानस्तत्कर्तृकसम्मान-स्सोपिं गळित: - पूर्ववत्पुरुषादिना न बहु - मन्यत इत्यर्थः- इत्यर्थः तादृशगौरवालाभादिति भावः । अथ परेत-