पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
तृग्णादूषणम्

बान्धवशोचनापदेशेन स्वस्यापशदतां सूचयन्नाह- जीवितसमाः प्राण- तुल्याः अत्यन्तप्राणतुल्या इत्यर्थः। सुह्रदो बन्धवश्च । समाना सबहु- मानास्सन्त स्सपदि सद्यएव जरावस्थायाः प्रागवेत्यर्थः । स्वर्याताः स्वर्गगता:-निजसुकृतपाकेन पुण्यलोकं गता इत्यर्थः-जरादुर्दशापत्त्या बहुमानरहितोऽहं न यातो हीनजीवन इति भावः - यद्वा - समाना स्सवयसः - जीवितसमा बन्धवश्व - सपदि सद्यएष दुरवस्थापत्तेः पूर्वमेवेति भावः - स्वर्याता लोकान्तरं गताः - न त्वहमित्यर्थः -नि. 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालया' इत्यमरः । ननु कंचित्कालं स्थीयतां किमनेन अमङ्गळाशंसनेनेत्यत आह - शनैर्मन्दं । यष्ट्युत्थानं यष्ट यवष्टम्भनेनोस्थानं - प्राप्तमिति शेषः - पादपाटवविघट्टनात्स्वय - मुत्थाने संचारे या शक्तिर्नास्तीत्यर्थः नत्वेतावन्मात्रमेव - किंतु नयने चक्षुषी घ प्रगृह्यत्वादस्य अहो इत्यनेन संध्यभावः । घनं निबिडं - यत्तिमिरं पाटलाख्यनेत्ररोगविशेषो वैद्यशास्त्रप्रसिद्धः-नि. 'तिमिरं ध्वान्ते नेत्रामयेऽपि चेति विश्वप्रकाशश्च - तेन रुद्धे निरुद्धशुद्धप्रसारे अर्थग्रहणासमर्थे जाते इत्यर्थः - अन्धकपङ्कजीवना द्वरं मरणमेवेति भावः । एतत्सर्वमनर्थजातं जराकृतमेवेति हृदयं । तदपि तथाऽपि। मूढः ज्ञानहीनः । कायो देहः । मरणेन योऽपायो विश्लेषः - नाश 'इति यावत् - तस्माच्चकितो भीतः भवतीतिशेषः ; अत्र देहिधर्मः तदु पाधौ देहे उपचर्यते। अहो ईदृकष्टदशायामपि जीविताशैव बली - यसी न विज्ञानोदय हत्याश्चर्यमित्यर्थः । एतदपि तृष्णाविलसितमे -. वेति भावः। शिखरिणी वृत्तम् ॥