पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
वैराग्यशतके

रास्तासु - कौतुकजुषामौत्सुक्यभाजामस्माक मायुः परम् आयु रेव । क्षीयते नश्यति - दुर्लभविषयचिन्तातत्परैः वृथा कालो यापितः न तु तत् ब्रह्मज्ञानं संपादितम् - अतो वयमपि तथा न धन्या इति । भावः ॥ वृत्त मुक्तम् ॥

भिक्षाऽशनं तदपि नीरसमेकवारं
शल्या च भूः परिजनो निजदेह्रमात्रम् ।
वस्त्रंविशीर्णशतखण्डमयी च कन्था
हाहा तथाऽपि विषया न परित्यजन्ति ॥ १५

 व्या.—अथ कस्यचिद्विषयाभिभूतस्य निर्वेदनवचनमभिनी - याह- भिक्षाशनमिति.--भिक्षा भैक्षमित्यर्थः । अशनमाहारः । तदपि भिक्षान्नाशनमपि । नीरसं मधुराम्लादिरसहीनं । तदप्येकवारं - न तु द्वित्रिवारमित्यर्थः । शय्या शयनीयं च । भूः - साऽप्यास्तरणादि - रहितति भावः । परिजनः । सेवकजनः । निजदेहमानं स्वस्य स्वय- मेव परिजनो न तु कश्चिदन्योऽस्तीत्यर्थः । वस्त्रमाच्छादनं च विशीर्णा शतखण्डमयी विशेषेण जीर्णा एकचीवरशकलनिर्मिता। कन्था। तथाऽपि ईदृक्कष्टदशायामपि । विषयाः भोगवाञ्छाः । न परित्य . जन्ति न विसृजन्ति - मामिति शेषः । हाहेति विषादविस्मयाति - शयाभिनिवेदनार्थाद्विरुक्तिः । पापिष्टा इमे विषया हतमेव घ्नन्तीति. भावः ॥

 अत्र विषयपरित्यागकारणसामग्रयां सत्यां कार्यानुदयाद्विशे षोक्तिरलंकार:- तत्सामग्रन्या मनुत्पत्तिर्विशेषोक्ति र्निगद्यत' इति लक्षणात् ॥