पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
विषयपरित्यागविडंबनम्

वसन्ततिलकावृत्तम् ॥

स्तनौ मांगग्रंथी कनककलशावित्युपमितौ
मुख श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिकरशिरस्सपर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १६

 व्या.—अथ विषयाणां कामिनीप्राधान्यात्तद्दूषणाभावे तत्प- रित्यागो न सुकर इति मनसि निधाय तो दूषयति - स्तनाविति.--- स्तनो कुचौ। मांसग्रन्थी मांसपिण्डौ। तथाऽपि। कनककलशौ अनर्घ्यहिरण्मयकुम्भावित्युपमितौ उपमाविषयीकृतौ - कनककलश- कल्पत्वेनोपवर्णितावित्यर्थः । मुखं वक्त्रं तु श्लेष्मागारं कफलालाद- न्तमलादिस्थानं तदपि च ; शशाङ्केन सुधारसमयेन चन्द्रेण । तुलितं समीकृतं - तत्तुल्यत्वेनोपवर्णितमित्यर्थः * अत्र तुलितशब्दस्य सा- दृश्यवाचित्वात्तद्योगेऽपि न * 'तुल्यार्थैरतुलोपमाभ्यामिति तृती- याप्रतिषेधः - अत्र सूत्रे सदृशवाचिन एव ग्रहणादिति । जघनं कटि- पुरोभागस्तु - नि. 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुर' इत्यमरः। स्रवता मदनसदनदार्ढ्याभावादृ्वता - मूत्रेण - क्लिन्नमा- र्द्रम् - अपवित्रमित्यर्थः । तदपि । करिवरशिरःस्पर्धिमजलपरिप्लुति श्लाघ्यगजेन्द्रकुम्भस्थलसदृशमित्युपवर्णितमिति भावः। अतः। मुहुः पीनः पुन्येन । निन्द्यं ग्रन्थ्याद्याकारेण जुगुप्स्यं । रूपं स्तनाद्यवयव- स्वरूपं कामिन्या इति शेषः । कविजनविशेषैः तत्तद्विशेषकल्पना चतुरकवीश्वरैः ।गुरुकृतंकनककलशादिसादृश्यवर्णनेन श्रेष्ठीकृतं। कविजनवाङ्मात्र सारमेवैतद्रूपं न तु स्वतस्सिद्धसारवदिति भावः ।।