पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
वैराग्यशतके

विवेकात्। बडिशयुतं मत्स्यवेधनसंदानितम् - अयोमयवक्रकण्ट काग्रस्यूतमित्यर्थः । पिशितं मांसमश्नातु भक्षयतु - आमिषलोभात्क ण्टकगिळनेन गळनिरोधात्सोऽपि म्रियतामित्यर्थः - नात्रानयोरप- राधः - नाज्ञानमपराध्यति - पतङ्गमातङ्गकुरङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्चेति च न्यायादिति भावः-नि. 'बडिशं मत्स्यवे - धनं'- पिशितं सरसं मांसमि' ति चामरः। किंत्विहास्मिन् लोके । विजानन्तोऽपि विनिपातहेतव इति विवेकवन्तोऽप्येते वयं । विपञ्जालेरापत्परम्पराभि - र्जटिलान् ग्रथितान् - उपद्रवहेतूनपी. - त्यर्थः * पचादित्वान्मत्वर्थीयो अच्प्रत्ययः । कामान्विषया न्न मुच्चामो न त्यजामः - विषयस्वरूपपरिज्ञानेऽप्यमुञ्चतामस्माकमेक एवापराध इति भावः के 'शे मुचादीनामि' ति नुमागम: विचा र्यमाणे नास्माकमध्यपराधः • प्रबलतरकारणसद्भावादित्याह - मोहस्य अज्ञानस्य । महिमामाहात्म्यं । गहनो दुर्विज्ञेयः • अघटितघटनापटु तराविद्याविलासमहिम्ना लोको जनः अविहितमपि करोति - अतो नास्माक मपराध इति भावः ॥ शिखरिणीवृत्तम् ॥

तृषा शुष्यत्यास्ये पिवति सलिलं शीतमधुरं
क्षुधार्त श्शाल्यन्नं कबळ्यति मांसादिकलितम्।
प्रदीप्ते कामाग्नौ सुदृढतर मालिङ्गति वधूं
प्रतीकारं व्याधेस्सुख मिति विपर्यस्यति जनः॥ १९

 व्या.--अज्ञानमहिम्नैव सुखाभावेष्वप्यन्नपानादिविषयेषु सुखबुद्धिं करोतीत्याह - तृषेति..---तृषा तृष्णया | आस्ये वक्त्रे। शुष्यति शेषं प्राप्नोति सति । शीतं च तन्मधुरं चेति विशेषणयोरपि