पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
वैराग्यशतके

शब्दोऽयं - यो गळः कण्ठः - तत्र- त्रुट्यन्ति शकलीभवन्ति - अत एव - विलीनान्यनुञ्चारितप्रायाण्यक्षराणि वर्णा यस्मिन् कर्मणि तद्य- था तथा । स्वस्य - दग्धः प्लुष्टो - यो जठरः उदरं - तस्यार्थे तत्पूर- णार्थमित्यर्थः - नि.- अर्थे कृते च शब्दो द्वौ तादर्थेऽव्ययसंज्ञिता वि' त्यमरः - दुग्धशब्दोऽत्र निर्वेदाभिद्योतकः - यथोक्तं सुरेश्वरवा- र्तिके - 'अस्य दग्धोदरस्यार्थे किन्न कुर्वन्यसांप्रतमिति। देहीति । वदेत् ब्रूयात् । न कोऽपीत्यर्थः । तस्याः दृश्यत्वादीदृगवस्थापन्नो भव- त्यतोऽनर्थमूलत्वात् तत्परित्यागोऽवश्यं कर्तव्य इति भावः ।

 शार्दूलविक्रीडितम् ॥

अभिमतमहाभान ग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटाज्जलचन्द्रिका ।
विषुलीवलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ २२

 व्या.---इदानीं दैन्यानर्थमूलं जठरं निन्दति - अभिमतेति.- अभिमतः कीर्तिप्रतिष्ठावहत्वादिष्टः - यो महामानग्रन्थिर्गरिष्ठाभि- मानग्रन्थिः - तस्य - प्रभेदे विश्लेषणे - पटीयसी समर्थतरा पटु- शब्दादीयसुन्युगितश्चेति क्लीप्। गुरुतरा अतिशयेन वर्तमाना - ये गुणग्रामाः गाम्भीर्यधैर्यादिगुणगणाः - त एवाऽम्भोजानि तेषां स्फुटं यथा तथा - उज्जलचन्द्रिका पूर्णिमाकौमुदी तत्सङ्कोचहेतुभूतेत्यर्थः । विपुलं विस्मृतं यथा तथा - विलसत्प्रकाशमानं - यल्लजावल्लीवितानं व्रीडालताविततिस्तस्य कुठारिका परशुः - तदुछेदनसाधनभूतेत्यर्थः । दुष्पूरा पूरयितुमशक्या - प्रत्यहमन्नपानादि पूरिताऽपि पर्याप्त्यभावा.