पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
याच्यादैन्यदूषणम्

क्तानि - फलानि विभ्रतीति तथोक्ताः। वल्कलिन्यः वल्कलवत्यः । एतेन विशेषणद्वयेन सुभोज्यवस्तुसमृद्धत्वाच्छादनयोग्यवस्तुसमृद्धत्वे सूचित । शाखाश्च । प्रध्वस्ता वा विनष्टाः किम् - अव्ययानामने कार्थत्वात्। ननु विद्यमानकन्दमूलादिश्वविद्यमानत्वं कुतो वितर्क्य- तइत्यत आह - यद्यस्मात्प्रसभमत्यन्तम् - अपगतप्रश्रयाणां विनय - शून्यानां। खलानां दुरीशानां दुःखाप्तमतिक्लेशेन प्राप्तं - तदपि स्वल्पं यद्वित्तं धनं तेन यः - स्मयो गर्वस्स एव पवनः - स्मयः पवन इव च - तद्वशादानर्तिताश्चलिताः - भ्रूव एव लताः भ्रुवोलता इव च येषां तानि-सविकाराणीत्यर्थः-स्मयपवनेत्यत्र भ्रूलता इत्यत्र च उपमारूपकयोस्साधकवाधकप्रमाणाभावात्संदेहसंकरः । मुखानि । वीक्ष्यन्ते-दृश्यन्ते याचकजनैरिति शेषः; कन्दमूलादीनां विनष्टत्वादेव जनैर्दुरीश्वरपरिचर्यातत्परैर्भूयते जीवनोपायार्थमतस्तदभाववितर्क - स्यावकाश इति भावः। यद्वा • जीवनोपायान्तराभावप्रश्नद्वारा निन्दति - किं कन्दा इति । किं वा शब्दौ प्रश्ने । अत एवं प्रश्नः क्रियत इत्यत आह - यस्मात्कारणाद्दुर्विनीतदुरीश्वरमुखान्यवलो - क्यन्ते युष्माभिस्तस्मादभावप्रश्नो युज्यत इति भावः। शेषं समानम् ; अत्रायमभिसंधिः- परमनैच्यावहं शास्त्रनिषिद्धं च दुर्विनीतसेवनोप- जीवनं परित्यक्तव्यम् ॥ स्रग्धरा ।।

पुण्यैर्मूलफलैः तथा प्रणयिनी वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणे रुत्तिष्ठ यावो वनम् ।
क्षुद्राणामविवेक गूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते॥ २६

 16