पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
विद्वत्पद्धतिः

बहुवचनप्रयोग इति मन्तव्यम् । पुरुषम् जनम् । न भूषयन्ति नालं- कुर्वन्तीति यथायोगं संबध्यते । चन्द्रवदुज्ज्वला धवळतराः हारा मुक्ताहाराश्च । न भूषयन्ति । स्नानमभिषेकोऽपि। न भूषयति । विलेपनं घनसारकस्तूरीगन्धसारचर्चाऽपि । न भूषयति । कुसुमं मल्लिकामालतीचम्पकादिपुष्पमपि - जातावेकवचनम् । न भूषयति । अलंकृता अभ्यङ्ग पुष्पमाल्यादिना सम्यक्प्रसाधिता मूर्धजा: शिरोरुहा अपि न भूषयन्ति पुरुषमिति सर्वत्रानुषङ्गः; किंत्वेका केवला वाणी पुरुषम् समलंकरोति, सम्यग्भूषयति। केयं वाणीत्यत आह - या संस्कृता व्याकरणादिपरिशुद्धा। धार्यते स्वायत्तीक्रियते । सेत्यध्याहृततच्छब्देन संबन्धः : ननु केयूरादीनां विभूषणत्वेन प्रसिद्धत्वात्तनिषेधे प्रत्यक्षापलापः स्यादित्याशङ्कय तेषां क्षयिष्णुत्वान्न तथात्वमित्याह - अखिलभूषणानि केयूराद्युक्ताशेषभूषणानि । क्षीयन्ते कालक्रमेण नश्यन्ति - 'क्षीयन्ते खल्वि'तिपाठे खलुशब्दो वाक्यालंकारे। वाग्भूषणं संस्कृतवाग्रूपभूषणं तु। सततं भूषणं नित्यभूषणं - कदाऽपि न नश्यतीत्यर्थः ॥

व्यतिरेकालंकारः - लक्षणं तूक्तम् ॥
एतदादिश्लोकचतुष्टयं शार्दूलविक्रीडितं वृत्तम् ॥

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विधा भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥ १७ ॥