पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
वैरान्यशतके

२५२ वैराग्यशतके विह्वलं। जन्तुमिति शेषः। अवश्यं नियत माशु शीघ्रमेवात्म - सात आत्माधीनं करोति-मारयतीत्यर्थः * ' तदधनिवचने साति - रिति सातिप्रत्ययः । अतस्तेन प्रसिद्धेन । निरङ्कशेन निरर्गन - अप्रतिहतव्यापारणेत्यर्थः । विधिना ब्रह्मणा । यद्वस्तु निर्मितं तरिक वासुस्थिरं - न किमपीत्यर्थः ; अतोऽस्थिरभोगाशंसनं न कर्तव्य • मिति भावः ॥

भोगास्तुङ्गतरङ्गभङ्गतरळाः प्राणाः क्षणध्वंसिनः स्तोकानेय्व दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता। तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम्॥ ३४

 व्या.–तर्हि किं कर्तव्यमित्याशङ्कायां तेषामस्थैर्यकथन - पूर्वकं कर्तव्यं तावत् त्रिमिरुपदिशति - भोगा इति.---भोगाः सक्वन्दनादिविषयाः । तुङ्गतरङ्गाः कलोलाः - भङ्गाः अल्पतरङ्गाः त इव - तरळाश्चपलाः - अतिसूक्ष्माइत्यर्थः - न तु कतिपयेष्वपि दिवसेषु स्थायिन इति भावः । प्राणा: । क्षणध्वंसिनः - क्षणे क्षण- काल एव - ध्वंसो विनाशः - एषा मस्तीति तथोक्ताः - अस्थिरा - इति यावत् । यौवने - या सुखस्फूतिर्वेषयिकसुखाभिव्यक्तिस्सा- तोकान्येव दिनान्यल्पेष्वेव दिवसेष्वित्यर्थः * अत्यन्तसंयोग द्विती या। प्रियासु कान्तासु ! स्थिता स्थायिनी * कतरिक्तः । न तु यावजीवभाविनी - वार्धकदशायां तदपायादिति भावः । सत्तस्मा - स्कारणात् । बोधका हितोपदेष्टारः। हे बुधाविद्वांसः । निखिलं। संसारं भोगादिरूपम् । असारमस्थिरमेव बुद्धा आलोच्य लोका -