पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
वैराग्यसशतके


तथा आयुर्जीवितं च । वायुना - विघट्टितं तरळितं - यदब्जपटली लीनाम्बु पनपत्रप्रान्तसंश्लिष्टजलबिन्दुः तद्वद्भङ्गरं भङ्गली - लावन्नश्वरमित्यर्थः । तथा । यौधने - लालसा: महाभोगामिला - षाः - नि. कामाऽभिलाषस्तर्षश्च स महान् लालसा द्वयोरि' त्य मरः । लोला अस्थिरा। इत्येवमाकलय्य आलोच्य । हे बुधाः । द्रुतं शीघ्रमेव - विलम्बस्यानवकाशादिति भावः । धैर्य धीरत्वं . समाधिश्चित्तस्थैर्य • तयोस्सिद्ध्या निष्पत्त्या - सुलभे सुखलभ्ये । योगे ब्रह्मध्याने । बुद्धिं निश्चयात्मिको मनीषां विधद्धं कुरुत - ब्रह्म - ज्ञाननिष्ठा भवतेत्यर्थः ॥

आयुः कल्लोललोले कतिपयदिवसस्थायिनी यौवनश्री-
राः संकल्पकल्पा धनसमयतटिद्विभ्रमा भोगपूगाः ।
कण्ठाले गोपगूढं तदपि च न चिरं यत्प्रियामिः प्रणीत
ब्रह्मण्यासक्तचित्ता भवत भवभया भोधिपार तरीतुम् ।।३६

 व्या.---आयुरिति---आयुः। कल्लोललोलं - कल्लोलवल्लोल - मतिभङ्गरं - न त्वाचन्द्रार्कस्थायीत्यर्थः. यौवनश्रीस्वनसंपत् । कति- पयेष्वल्पेषु - दिवसेषु तिष्ठतीति तथोक्ता - न तु यावजीवं वर्तिनी - त्यर्थः । अर्थाः धनधान्यग्रामपश्वादिवस्तु विभवास्संकल्पकल्पाः मनोरथतुल्या इत्यर्थः -- तेऽपि न चिरस्थायिन इति भावः * 'ईषदसमाप्तौ कल्पब्देश्य देशीयर' इति कल्पप् प्रत्ययः। भोग- पूगाः विषयपरम्पराः । घनसमये वर्षाकाले। यास्तटित - स्तासा - मिव-विभ्रमाः स्फुरणानि येषां ते तथोक्ता: - क्षणभङ्गुरा इत्यर्थः । तथा प्रियाभिः प्रौढाङ्गनाभिर्यत्कण्ठाश्लेषेण कण्ठग्रहेणोपगूढमुपगृहन-