व्या.--विद्या नामेति.-रूपं नाम कुण्डलहारनूपुराङ्ग- दादिचतुर्विधभूषणाभावेऽपि विभूषितबद्भासमान आकारविशेषः . तदुक्तं भावप्रकाशे----
आवेध्यारोप्यविक्षेप्यबन्धनीयैरभूषितम् ।
यद्भूषितमिवाभाति तद्रूपमिति कथ्यते ।।
इति.-
विद्या नाम वेदशास्त्राद्यात्मिका विद्यैव । नरस्य पुंसोऽधिकं
भूयिष्ठं। रूपमुक्तलक्षणाकारविशेषः - तद्बल्लोकरञ्जकत्वादितिभावः ।
तथा प्रच्छन्नं निगूढं यथा तथा। गुप्तं रक्षितं । धनं विद्यै-
बेति संबन्धः - तद्वकालान्तरेषूपकारकत्वादिति भावः। विद्या
भोगान् करोतीति भोगकरी स्रक्चन्दनादिभोग्यवस्तुलाभहेतुः। तथा
यशस्समाख्या - सुखमिन्द्रियतर्पणम् - एतत्करी एतद्धेतुश्च - उभय-
त्रापि 'कृञो' हेतुताच्छील्यानुलोम्येष्वि' ति टप्रत्यये टित्वात् ङीप्।
तथा विद्या । गृणन्त्युपदिशन्तीति गुरवस्तेषां हिताहितोपदेष्टॄ णामा-
चार्याणामपि - गुरुरुपदेष्टॄभूता - तथा परमार्थबोधकत्वादिति भावः ।
विद्या । विदेशगमने प्रवासे । बन्धुजनः सुःऋजनः - तद्विशेषोप-
चारसंपादकत्वादिति भावः- तदुक्तं - स्वदेशमित्रं परदेशबन्धुं विद्या-
सुधां ये पुरुषाः पिबन्ति । विद्या परा देवता परमात्मभूता -
मोक्षदायकत्वादिति भावः - यद्वा परादेवता स्वाभीष्टदेवता - तथा
ऐहिकामुष्मिकफलदत्वादिति भावः - विद्या । राजसु राजमध्ये।
पूज्यते प्रशस्यते - गौरवसंपन्नत्वाद्राजपूज्या भवतीत्यर्थः - यद्वा
विद्याशब्देन विद्यावान् लक्ष्यते राजशब्देन च तत्सभाः लक्ष्यन्ते