ब्राह्मणादित्वात् व्यङ् • तत्र यद्राज्यमाधिपत्यं - तदादिर्येषां ते
तथोक्ताः विभवास्संपदो। विरसाः अनभिमताः - हया इति यावत्।
भवन्ति - तेषु तथाविधरुच्यतिशयाभावादिति भावः - यद्वा यस्य
ब्रह्मानन्दरूपभोगस्य - स्वादात् - त्रैलोक्यराज्यमादिः कारणं -
येषां ते तथोक्ताः - सकल भुवनाधिपत्यसंभवा इत्यर्थः - विभवास्सु-
खसंपदः - विरसाः रसहीनाः - निकृष्टा इति यावत् - भवन्ति -
ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भूतत्वात् - 'एतस्यैवानन्दस्यान्यानि
भूतानि मात्रामुपजीवन्तीति श्रुतरिति भावः। कोऽप्यनिर्वाच्यः ।
कुतः परमस्सर्वोत्कृष्टः - निरतिशय इति यावत्। तत्कुतः - नित्यो-
दितः नित्याभ्युदयसंपन्नः इत्यर्थः। स एक एव भोगो ब्रह्मानन्दरू
पो जम्भते महाराजश्रेत्रियाद्यानन्दानामुत्तरोत्तरतारतम्यमुलवाऽस्य
सर्वोत्कृष्टत्वस्य श्रुत्युक्तत्वादिति भावः। अतः भोस्साधो सजनेत्युप-
देशश्रवणाभिमुखीकरणार्थ स्तुतिः - अत्रैकवचनं समुदायाभिप्राय-
मत एव रे लोका इति न पूर्वश्लोकोक्तबहुवचनविरोधः - अत्रास्मदु-
पदेशं ये न शृण्वन्सि त एव नीचाः - यस्तु शृणोति स एव साधु-
रिति संबोधनद्वयतात्पर्य। क्षणभङ्गुरे अनित्ये उपलक्षणमेतत् -
परमनीच इत्यर्थः। तदितरे तस्माद्विशिष्टभोगादितरस्मिन् * अत्रा-
स्मिन्नादेशाभावश्चिन्त्यः। भोगे सांसारिक सुखानुभवे। रति राग
प्रीतिमिति यावत् - नि.-'रतिस्मरप्रियायां च रागेऽपि सुरतेऽपि
घेति विश्वः। माकृथाः मा कार्षीः - किंतु पूर्वोक्त एव तस्मिन्
पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६२
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
वैराग्यशतके