पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
कालमहिमानुपर्णनम्


भोगे रतिं कुरु - तस्यैव परमश्रेयस्करत्वादिति भावः * कृञो लुङि 'न मङयोग' इत्यडागमप्रतिषेधः ॥ वृत्तं पूर्ववत् ।।

इति वैराग्यशतके भोगास्थवर्णनं सम्पूर्णम् ।।

 ॥ कालमहिमानुवर्णनम्

सा रम्या नगरी महान्स नृपतिस्सामन्तचक्रं च त-
त्पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः।
उद्वृत्तस्स च राजपुत्रनिवहस्ते वन्दिन स्ताः कथा-
स्सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मै नमः
॥ ४१

  व्या.- अथ सर्वस्यापि कालनियम्यत्वात्तन्महिमानं दश- भिर्वर्णयति-तत्रादौ तस्य नियामकत्वं प्रकटयन्नमस्करोति - सेति अत्र सर्वत्राऽपि तच्छब्दः पूर्वानुभूतविषयः - अत एव न यच्छ- ब्दापेक्षा - तदुक्तं काव्यप्रकाशे - ‘प्रक्रान्त प्रसिद्धानुभूतार्थ गोचर- स्तच्छब्दो न यच्छन्दमपेक्षत' इति । तथा च। सा पूर्वानुभूता। रन्तुं योग्या रम्या - मनोहरा नगरी राजधानी च। तत्र स महान् साम्राज्यभारधौरेयतया पूज्यः। नृपतिः राजा च। * तस्येति संब न्धसामान्ये षष्ठी सर्वत्र संबध्यते • तस्य नपृत्तेस्तत् सामन्तचक्रं प्रत्यर्थिराजमण्डलं - यद्वा - सेवार्थं समागताखण्डमण्डलाधिपत्तिपरि- पवारश्च - तस्य पार्श्वे स्थितमिति शेषः । सा विदग्धपरिषत् विद्वत्समा च अथवा - विदग्धानां कर्तव्यार्थचतुराणां - परिषत् समुदायश्च- ‘कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्तितम्' लक्षणात्। तस्य ताश्चन्द्र- बिम्बमिवाननं यासां तास्सुन्दर्यश्च । यस्य स । उद्धृत्तः उत्पथगतः -