पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
वैराग्यशतके


उद्दण्ड इति यावत् । राजपुत्त्रनिवहः राजकुमारवर्गश्च। तस्य ते। वन्दिनस्तुतिपाठकाश्च - नि.- वन्दिनः स्तुतिपाठका' इत्यमरः । यस्य ताः कथाश्च । श्रव्यवाचश्चेति । सर्वमशेषमपि। यस्य कालस्य । वशादायत्तत्वात् - नि.- वश आयत्ततायां चे' त्यमरः। स्मृतिपथं स्मरणमार्गं * कारि'त्यादिना समासान्तोऽत्प्रत्ययः। अगात् प्रापत्त् - कालमहिम्ना सर्वमपि नष्टमभूदित्यर्थः - सर्वसंहतुः कालस्य महिमा वर्ण्यत इति भावः 'इणो गालुङी 'ति इणो लुङि गादेशः। तस्मै कालाय । नमः ग्रहीभावः - कालः कलयतामहमिति भगवद्वचनात्कालो भगवानेव । तथा च तन्नमस्काररूपमङ्गलाचरणं युज्यत इति भावः * 'नमस्स्वस्ती'त्यादिना चतुर्थी ।।

 शार्दूलविक्रीडितम् ।।

यत्रानेकः कचिदपि गृहे तत्र तिष्ठत्यर्थैको
यत्राप्येकस्तदनु बहवस्तत्र नैको पि चान्ते ।
इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
काल: कल्यो भुवनफलके क्रीडति प्राणिशारैः
॥ ४२

 व्या..-अथास्यामधूर्तसाम्येन सर्वप्राणिनियन्तृत्वमाह-यत्रे- ति.-----यत्र यस्मिन् गृहे - वेश्मनि कोष्ठे च । क्वचिदपि कदाचित् - यद्वा - यत्र कचिदपि यस्मिन् कास्मिंश्चिगृहे। अनेकः बहुळः । प्राणी शारश्च तिष्ठति - अथानन्तरं तत्र तस्मिन्नेव गृहे। कदाचि! देकस्तिष्ठति - एकत्र कालभेदवशादन्यत्र परिणामवशाच्चेति भावः । तथा - यत्र यस्मिन् गृहे कदाचिदेकस्तिष्ठति तदनु तदनन्तरं - बह वश्च तिष्ठन्तीति शेषः। तत्र तस्मिन् गृहे। अन्ते अवसानकाले -