पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
कालमहिमानुवर्णनम्

कालमहिमानुवर्णनम् २६७. कुम्भयुग्ममित्यर्थः - यद्वा पयोधरयोरूर्वाश्च युगलं पयोधरयुगळमू- रुयुगळं चेत्यर्थ: - तत् । स्वप्नेऽपि स्वप्नावस्थायामपि किमुत जाग्रद- वस्थायामिति भावः । नालिङ्गित नाश्लिष्टं

“संसारे पटलान्ततोयतरळे सारं यदेकं परं
यस्यायं च समग्र एष विषयग्रामप्रपन्नो जनः ।
तत्सौख्यं परतत्त्ववेदनमहानन्दोपमं मन्दधीः
को वा निन्दति सूक्ष्ममन्मथकलावैचित्र्यमूढो जनः
१ ॥

इत्यादिकामशास्त्रोक्त्तया कामपुरुषार्थस्याप्युपादेयत्वात्तनिष्पादकत्वे . नाधिगतमङ्गनाकुचकुम्भालिङ्गनाधरचुम्बनादिकमपि न कृतमतस्तन्नि- ष्पाद्यकामपुरुषार्थोऽपि न समर्थित इति भावः - अयमेव भावः उत्तरपद्यद्वयेऽप्यनुसंधेयः अत्र बाह्यसुरते पयोधरालिङ्गनं सुरतप्रयो- ज्यग्राम्यकरणे डोलायित्तबन्धे उरुयुगळालिङ्गनमिति विवेकः - अत्र वात्स्यायनीया:---

" बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते ।
__ तत्राद्यं चुम्बनाश्शेषनखदन्तक्षतादिकम् ।।
द्वितीयं सुरतं साक्षान्नानाकरणकल्पितम्
॥” इति-

किं तु केवलमत्यन्तं मातुर्जनन्या । यौवनं तारुण्यमेव - वनं सुपुष्पि- तोधानं - तस्य च्छेदे विदारणे। वयं कुठाराः परशव एव । यौवनस्य पुत्त्रोत्पत्त्यवधिकत्वात्तदुच्छेदनसाधनभूता एव - न त्वर्थान्तरसाधका अतो निरर्थकमस्मज्जन्मेति भावः ॥

नाभ्यस्ता प्रति वादिवृन्ददमनी विद्या विनीतचित्ता
खड्गाग्रैः करिकुम्भपीठदळनैर्नाकं न नीतं यशः