पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
वैराग्यशतके


पल्लवाधरसुधा पीते ति पाठे स्पष्टोऽर्थः । अतो न तृतीयपुरुषा - र्थोऽपि सम्पादित इति भावः- तटस्थोद्दीपनविभावश्व चन्द्रस्य शृङ्गा- ररसनिमित्तकारणत्वात्तदुदयोक्तिः - तदुक्तं शृङ्गारतिलके - ' मल - यानिलचन्द्राद्यास्तटस्थाः परिकीर्तिता' इति । अतस्तारुण्यं यौवन । शून्यालये निर्जनगेहे । दीपेन तुल्यं दीपवत् * - * तेन तुल्यं क्रिया नेद्वतिरिति वतिप्रत्ययः । निष्फलं निरर्थकमेव । गतं यथा शून्यगृह- दीपस्य कस्यचिदप्यनुपयोगानिरर्थकत्वं तथा तारुण्यस्यापि कस्यचिद- प्यर्थस्यासाधकत्वान्निरर्थकत्वमित्यर्थः । अहो इत्याश्चर्ये विषादेवा ॥

 तद्धितगतेयमुपमा ॥

विद्या नाधिगता कळङ्करहिता वित्तं च नोपार्जितं
शुश्रयापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायतलोचनाः प्रियतमास्वोऽपि नालिङ्गिन्ताः
कालोऽयं परपिण्डलोलुपतया काकैरिप्रेरितः
॥ ४७

 व्या.----विधेति.-कळकरहिता निष्कलङ्का - सप्रमाणे - त्यर्थः । विद्या । नाधिगता नाभ्यस्ता नाधीतेति यावत् - ' नाभ्य - स्ताप्रतिवादिवृन्दमनी' त्यत्र उक्तभाव एवात्राप्यनुसंधेयः । वित्तं त्यागभोगपर्याप्तं धनं च नोपार्जितम् -

'  यस्यास्ति वित्तं स नरः कुलीनस्सपण्डितस्सश्रुतवान् गुणज्ञः॥ स एव वक्ता स च दर्शनीयस्सर्वे गुणाः काञ्चनमाश्रयन्ते' । . इत्युक्तः -

धनमार्जय काकुत्स्थ धनमूलमिदं जगत । अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥