पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
कालमहिमानुवर्णनम्


लाभे तदनुशोचनं प्रायशः प्रसिद्धं - यथा पिपासितस्यालब्धशर्क - रापानकस्यारनाळापेक्षायां नदलाभे अनुशोचनं - उद्यत्कालविप्रलब्ध - स्याधिगतपरमार्थानामपेक्षायां तदलामेऽनुशोचनमुचितमेव अत एवं श्लोकत्रयेऽपि प्रतिश्लोकं पूर्वार्धे उत्तममध्यभेदेन पक्षद्वयाभावानु शोचनमुक्ता अधमत्वातिशयेन तृतीयपक्षे तदभावानुशोचनमुक्तमि - त्यलमतिप्रपञ्चेन ॥

वयं येभ्यो जाता चिरपरिमता एव खलु ते
समं यै संवृद्धास्स्मृतिविषयतां तेऽपि गभिताः ।
इदानी मेते स्मः प्रतिदिवसमासन्नपतना
गतास्तुल्यावस्थां सिकतिलदीतीरतरुभिः
॥ ४८

 .-अथ कालविकलनाविपाकवचनमाह - वयमिति.- वयं येभ्यो मातापितृभ्यो जाता उत्पन्नास्ते चिरपरिचिता एव चिर- कालपरिचयवन्त एव विनष्टा इत्यर्थः। खलु शब्दोऽत्र निश्चये वाक्यालंकारे वा। तथा यैर्जनैस्समं। संवृद्धास्सम्यग्वृद्धिं गताः - संवृत्ता' इति पाठे प्रवृत्ता इत्यर्थः। तेऽपि। स्मृतिविषयतां स्मरण- गोचरत्वं । गमिताः प्रापिताः। कालेनेति शेषः - तेऽपि नष्टा इत्यर्थः

  • गमेर्ण्य॑न्तात्कर्मणिक्तः * गतिबुद्धी'त्यादिना अणि कर्तुः

कर्मणि ण्यन्ते कर्तुश्च कर्मण' इति वचनात् - अथवा गमिता 'गता इत्यर्थः - स्वार्थे णिच् 'रामो राज्यमकारयदिति वत् । इदा- नी वार्धकावस्थायामेते वयं। प्रतिदिवसं प्रत्यहं * यथार्थेऽव्ययी- भावः। आसन्नं समीपवर्ति - पतनं निधनं - येषां ते तथोक्ताः । अत एव । सिकतास्मिन्नस्तीति सिकतिलं सैकतप्राय * *देशे लुबि- 18