पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
चैराग्यशतके


लचौ चे' त्यनेन तदस्त्यस्मिन्नित्यर्थे इलच् प्रत्ययः - यन्नदीतीरं नदी- तटप्रदेशः - तत्र ये - तरवः वृक्षा • स्तै - स्तुल्यावस्थां गताः सम - दशां प्राप्तास्स्मः । क्षिप्रमेव यास्याम इत्यर्थः। एतत्सर्वं कालकृत - मेव अन्यथा कथमन्यस्यदृक्सामर्थमिति भावः ।।

 अत्र तरङ्गभङ्ग्याघातै स्सिकतापनये अविलम्बेन तरूणां निर्मूलोन्मूलः - तद्द्द्योतनार्थ नदीतीरस्य सिकतिलविशेषणं-

 नि. 'स्त्री शर्करा शर्करिलश्शार्करावति ।  देश एवादिमावेव मुन्नेयौ सिकतावति । इत्यमरः ॥  शिखरिणीवृत्तम् ॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषे व्याधिवियोगदुःस्वसहितं सेवादिभिर्मनीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतःप्राणिनाम्
॥ ४९

व्या.....अथप्राणिनां विचार्यमाणे सुखलेशस्याप्यवकाशो - नास्तीत्याह - आयुरिति.----नृणां मर्त्याना मायुर्जीवितावधिकालो वर्षशतं शतसंवत्सरात्मकं । परिमितं कृतं - ब्रह्मणेति शेषः - नि. 'विंशत्याद्यास्सदैकत्वे सर्वा संख्येयसंख्ययोरि'त्यमरः । तदर्धं तस्य वर्षशतस्यार्धं - पञ्चाशद्वत्सरात्मकं । रात्रौ गतं-इन्द्रियव्यापारोपरम, रूप निद्रावस्थया गलितं भवतीत्यर्थः । परस्य । तस्य जागरूकेण वर्तमानस्यार्धस्य पञ्चाशद्वत्सरात्मकस्यापरमन्यदर्धं - पञ्चविंशति - संवत्सरात्मकं । बालत्ववृद्धत्वयोर्गतमज्ञानाशक्तत्वावस्थाविषयतया नष्ट मित्यर्थः - द्वादशसंवत्सरात्मक मेक मर्धं बालत्वे अन्यद्वृद्धत्वे