पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
कालमहिमानुवर्नम्

कालमहिमानुवर्णनम् इति विवेकः । शेषं पञ्चविंशतिसंवत्सरात्मकमेतदवशिष्टार्धं व्याधिभिः रोगैः - वियोगदुःखैः पुत्रकळत्रावादिविरहप्रयुक्तदुःखै स्सहितं सत् - सेवादेभिः स्वजीवनार्थं वित्तवत्परिचर्यादिकष्टकर्मङि र्नीयते अतिवाह्यते। अत: वारितरङ्गवच्चञ्चलतरे अतिचञ्चले क्षणिक इत्यर्थः । जीवे जीवने प्राणिनां । सौख्यं सुखं । कुतः - न कुतोऽपीत्यर्थः । उक्तरीत्या विचार्यमाणे सुखलेशस्याप्यनवकाशादिति भावः ।।

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणे वित्तैर्हीनः क्षणमपिच सम्पूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनु-
र्नरस्सारान्ते विशति यमधानीयवनिकाम्
॥ ५०

 व्या.-अथ कालत्रययुक्तबाल्याद्यवस्थाक्रमण मर्त्यः स- र्वोऽपि म्रियत इत्युपसंहरति - क्षणमिति..--क्षण क्षणमात्रमी - षत्कालमित्यर्थः अत्यन्तसंयोगे द्वितीया । बालः शिशुर्भूत्वा - तथा क्षणमपि। कामेन मन्मथेन - रसिकः शृङ्गाररसाभिनिविष्टः - यद्वा - काभ्यन्ते अभिलष्यन्त इति कामा: -- कामिनीसंभोगादिविषया - स्तेषु - रसिकः अनुरागवान् युवा तरुणश्च । भूत्वा । तथा क्षणं। वित्तैर्हीनो निर्धनो । भूत्वा । क्षणमपि संपूर्णविभवः परिपूर्णधनश्च - भूत्वा - नि. ' अर्थरै विभवा अपी' ति पर्यायेष्वमरः । तथा । क्षणं जरया - जीर्णैः शिथिलैः - विश्लिष्टसंधिबंधैरिति यावत् - अङगै - रूपलक्षितः। अत एव । वळीभिर्विश्लथचर्मभङ्गिभिर्मण्डिता भूषिता चिह्नितेति यावत् - के 'मडिभूषण' इति धातोः कर्मणि क्तः - तनुर्गात्रं - यस्य तथोक्तो । भूत्वा । नरस्सर्वोऽपीत्यर्थः ॥ नट •