पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
वैराग्यशतके


गुरुसेवातत्परेत्यर्थः - यद्वा - उपासिता - गुरूपासनावशात्संपादिता- | गुरुः श्रेष्ठा च - या प्रज्ञा त्रैकाल्यगोचरबुद्धिविशेषप्रवृत्तिस्तया '; योऽभिमान आग्रहस्तेनोन्नताः उत्कृष्टाः । त्वं। विभवैधनसंपद्भिः। ख्याता सर्वत्र प्रसिद्धः। तथा। कवयः विद्वांसः - यद्वा - विचित्र- प्रबन्धवचनरचनाचातुरीधुरीणप्रतिभासंपन्नाः कवयितारः। नोऽस्मा- कं। यशांसि कीर्तीः । दिक्षु दिगन्तराळेषु । प्रतन्वन्ति विस्तारयन्ति । एते महान्तस्संततपरिचर्याभिनन्दिताचार्यकृपाकटाक्षलब्ध प्रज्ञाभिमा- नमानसमहोत्सवशालिनः ज्ञानविज्ञानसंपन्ना मोक्षसाम्राज्यपट्ट- बद्धास्तृणीकृतब्रह्मपुरन्दरा इत्यस्मानपि कीर्तयन्तीत्यर्थः-तस्माद्वयमपि- ख्याता एवेति भावः। अतः इत्थमनेन प्रकारेण । त्वं चाहं चार्वा - तयोः - * 'त्यदादीनि सर्वैर्नित्यमित्येकशेष:-उभयोरप्यन्तरं । तार- तम्यं मानधनाभ्यां मतिदूरमत्यन्तविप्रकृष्टं-त्वं केवलधनवान् - वयं तु प्रज्ञापयुक्ताभिमानधनवन्तः - अतः तव चास्माकं च सुमेरुसर्षपयो- रिव महदन्तरमित्यर्थः । अतस्त्वमस्मासु विषये। पराङ्मुखः अना- दरपरोऽसि यदि - तर्हि। वयमप्येकान्ततो। निस्पृहाः निरपेक्षा:- अनादरपरा इत्यर्थः - त्वयीति शेषः। अनादरेऽप्यवस्थानेनास्माक- मत्र प्रयोजनमस्ति . तवामास्वादरश्चेेदस्माकमपि त्वय्यादर - स्तद्वशादत्र स्थास्यामः - अन्यथान्यत्र गमिध्याम इति भावः - अत्र 'त्वं राजा वयमि 'त्युपक्रमे 'वयमप्येकान्ततो निस्पृहा' इत्युपसं - हारे च बहुवचनं प्रयुज्य आवयोरिति द्विवचनप्रयोगः कथ मुपयुज्यत इति चेत्सर्वेषां समुदायविवक्षया वा आत्मसंभावनायां बहुवचन - प्रयोगेण वा युक्तत्वा न्न कोऽपि विरोधः - एवमुत्तरत्राऽपि द्रष्टव्यम् ॥