पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
नीतिशतके

खला स्सन्ति यदि सर्पैराशीविषैः किम् ? तेषामेव प्राणापहारित्वा- दिति भावः । अनवधा निर्दुष्टा के अवद्यपण्वे 'त्यादिना निपातना- त्साधुः - ततो नञ् समासः - 'तस्मान्नुडची ति तुडागमः । विधा वेदवेदाङ्गाध्यात्मिका । अस्ति यदि। धनैः किम् ? तस्या एवा- खिलभोगसाधकत्वादिति भावः । ब्रीडा अकार्यप्रवृत्तौ मनस्संकोच- लक्षणलजाऽस्ति चेद्भूषणैः किमु हारनूपुराद्यालंकरणैः किम् ? - तस्या एव लोकोत्तरभूषणत्वादिति भावः । सुकविता सत्याण्डित्यं - नि- 'संख्यावान्पण्डितः कविरि'त्यमरः - यद्वा कवयति वर्णयति रसोल्लसितशब्दार्थसंघटनां करोतीति कविस्तस्य भावस्तत्ता - यदि । राज्येन भूमण्डलाधिपत्येन किम् ? - तस्या एवं सकललोकवशीकरत्वा- दिति भावः - राज्ञो भावः कर्म वा राज्यं प्रजापरिपालनात्मकं - पुरोहितादित्वाद्यक्प्रत्ययः ॥

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुनने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ १९ ॥

 व्या.-अथ विदुषां गुणवर्णनपूर्वकं लोकव्यवस्थापकत्वमाह दाक्षिण्यमिति.---स्वजने बन्धुजनेष्वित्यर्थः । जातावेकवचनम् - एक- मुत्तस्त्रापि - दाक्षिण्यं छन्दानुवर्तनम् - अन्यथा विनिदेयुरिति भाषः - नि- दक्षिणस्सरळावामपरच्छन्दानुवर्तिस्वि'ति। परिजने भृत्य- जनेषु विषये । दया दारिद्यादितद्दुःखप्रहाणेच्छा - अन्यथा विजह्यु- रिति भावः। दुर्जने खलजनेषु विषये। सदा शाठ्यं विप्रियका-