पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
वैराग्यशतके


तोषयोरन्तरं न किञ्चिदम्यस्तीत्यर्थः - ‘सम इव परितोषो जायते को विशेष' इति वापाठः। किंतु यस्य पुंस स्तृष्णा धनलिप्सा। विशाला अत्यायता स पुमान् । दरिद्रोऽकिञ्चिनो । भवतु न त्वन्य इत्यर्थः * सम्भावनायाम् लोट् । कथनेतदित्याशङ्कयोक्त मर्थ मर्था- न्तरन्यासन द्रढयति - मनसि च परितुष्टे चित्ते येन केनचित्सन्तुष्टे सति । कः पुमानर्थवान् द्रव्यसम्पन्नः । कश्चवा। दरिद्रः द्रव्य - हीना-न कोऽपीत्यर्थः - मनः परितोषे लामालाभयोरकिञ्चित्करत्वा - दितिभावः। अतो न किञ्चिदप्यस्माकं कृच्छ्रमिति वेदितव्यम् ।।   मालिनीवृत्तम् - 'ननमययुतेयं मालिनी भोगिलोकैरि 'ति लक्षणात् ।।

फलमलमशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणा-
मविनयमनुमन्तुं नोत्सहे दुर्जनानाम्

 व्या.----तथाऽपि शरीरयात्राया अन्यथा संभाव्यमानत्वान्न- दुर्जनाविनयं सोढुं शक्नोमीत्याह - फलमिति.-फलम् । अश - नाय भोजनाय क्षुन्निवारणार्थमित्यर्थः । अलं पर्याप्तं * अलमिति पर्याप्त्यर्थग्रहणात् ‘नमस्स्वस्ती' त्यादिना चतुर्थी - एवमुत्तरत्रापि द्रष्टव्यम् । तथा स्वादु मधुरं-नि. 'त्रिविष्टेस्वादु मधुरे' इत्यमरः। सोयमुदकं। पानाय तृष्णोपशान्त्यर्थ मित्यर्थः । अलं । तथा । क्षिति रपि शयनार्थं संवेशनाय । अलं। तथा वल्कलं च । वाससे आच्छा- दनार्थम् । अलम् । अतः । नवं सद्यस्संभावितं - यद्धनं - तदेव मधु-