पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
वैराग्यशतके


रद्धा गुहाः कि १ मञ्जितोऽवति नोपपन्नान् ? कस्माद्भजन्ति यतयो धनदुर्मदान्धान् ?' इति ॥ तथाचोक्तं शिवगीतायां -

संवीतो येन केनाश्नन्भक्ष्ये वाऽभक्ष्य मेववा।।
शयानो यत्र कुत्राऽपि सर्वात्मा मुच्यतेऽत्र सः' ॥ इति.

न नटा न विटा न गायका न च सभ्येतरवादचुञ्चवः ।
नृपमीक्षितुमत्र के बयं स्तनभारानमिता न योक्तिः

 व्या..---अथ स्वस्य राजदर्शनायोग्यतायाः प्रकटनापदेशेन तं निन्दति- नेति. वयं । नटाः विविधवेषधारिणो विचित्रनाट्य - निपुणाः । न न भवाम इत्यर्थः - येन नयनानन्दो भवेदिति भावः । विटा एकविद्याः नायकानुकूलनचतुराः। न नभवामः - येन तत्तन्नायिकानुकूल्यप्रयोजनं सिध्येदिति भावः - सदुक्तगलंकारशास्त्रे - 'नायकानां नायिकानुकूलेन सहायाः पीठमर्दविटचेटविदूषकादय' इति - तल्लक्षणं च तत्रैव -

किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः ।
संधानकुशलश्चेटो हास्यप्रायो विदूषकः ॥ इति ।।

गायन्तीति गायकारसङ्गीतकुशलाः । तेन नभवामः-येन श्रवणानन्दो भवेदिति भावः। सभायां साधवस्सभ्या: 'तत्र साधुः इति यत्प्रत्ययः) तेभ्य इतरे ये वादचुञ्चयः अशिष्टगर्ह्यालापा:-साधारण जनमनोविनोद मात्रपर्यवसायिनो न तु शास्त्रसंवादिन इत्यर्थः - यद्वा • सभ्या: विद्वांसः - तदितरे साधारणजना-स्तेषां - वादास्तदनयोग्यवाक्यानि- तैर्वित्ताश्चुञ्चवः वित्ता-हास्यकारिण इत्यर्थः । न न भवामः । येन मनो-