यथा तृणमिव । दत्तमर्थिसात्कृतम् - एतेनैतेषां महौदार्य सूच्यते।
इह हि इदानीमपि । अन्ये । धीराः धैर्यशालिनः । चतुर्दशभुवनानि
- भूरादीनि चतुर्दश विष्टपानि । भुञ्जते अनुभवन्ति - ताहक्साम -
र्थ्यसंपन्नास्तिष्ठन्तीत्यर्थः के भुजपालनाभ्यवहारयो रि' ति
धातोर्लट् ॐ भुजोऽनवन' इत्यात्मनेपदम् । अतः । कतिपयानि च
तानि पुराणि च तेषां द्वित्राणां पञ्चषाणां वा पुराणामित्यर्थः -
स्वाम्ये आधिपत्ये सति। पुंसा मेष परिदृश्यमानो। मदो दर्ष-
एव - ज्वरः सन्निपातः बुद्धिभ्रंशहेतुत्वात् । कः किमर्थमित्यर्थः
अतः पुरातनमहाराजचरितानुस्मरणाल्लजितव्यं - न तून्मत्तेन भवि.
त्तव्यमिति भावः ॥ हरिणीवृत्तम् ॥
अभुक्तायां यस्यां क्षणमपि न यातं नृपशतै-
र्भुवस्तस्यालाभे क इव बहुमानः क्षितिभृताम् ।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो ।
विवादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ५८
व्या...~-अभुक्ताया मिति,-नृपशतैः अनेकभूपालकैः । यस्यां भुवि । अभुक्तायामननुभूतायां सत्यां । क्षणं क्षणमात्रमपि । न जातं किंतु क्षणमात्रव्यवधानरहितमेवानुभूयते इत्यर्थः । तस्या भुवो। लाभ प्राप्तौ । क्षितिभृतां राज्ञां । क इव - इवशब्दो वाक्यालंकारे ' इवेतीषदर्थोपमा वाक्यालंकारेष्वि' ति गणव्याख्याने • बहु - मान उत्कर्षों - न कोऽपीत्यर्थः - सर्वसाधारण्यादिति भावः। किं तु तस्याः भुवोऽशस्यापि-अंशे भागे च तथा तस्यांशस्य- योऽवयवः एकदश स्तस्य-लेशे अत्यल्पकोणेऽपि चेत्यर्थः । पतयः ईश्वराः