पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
विद्वत्पद्धतिः

रित्वम् - अन्यथा अधिक्षियेरन्निति भावः । साधुजने सजनेषु विषये। प्रीतिः स्नेहः - आदर इति यावत् - अन्यथाऽनुतपेयुरिति भावः । द्दपजने राजसु विषये । नयो नीतिः - अनुवर्तनतात्पर्यमिति यावत् - अन्यथा दण्डयेरनिति भावः । विद्वज्जने पण्डितजनेषु विषये। आ- जवमवक्रता - अन्यथा निषिध्येयुरिति भावः। शत्रुजने शत्रुजनेषु विषये । शौर्य विक्रान्तत्वम् - अन्यथा निपातयेरन्निति भावः । गुरु- जने पित्रादिपु विषये। क्षमा सहिष्णुत्वम् - अन्यथा शपेरन्निति भावः। कान्ताजने नारीजनेषु विषये। धृष्टता प्रागल्भ्यं च - अन्यथा वशीकुर्युरिति भावः ; इत्येवमुक्तविधासु । कलासु शिल्पेपुनि -'कळा शिल्पे कालभेदे चन्द्रांशे कलना कले'ति वैजयन्ती। ये च पुरुषाः। कुशलाः निपुणाः। तेषु पुरुषेष्वेव। लोकस्थितिः 'लोकमर्यादा । अस्तौति शेषः। त एव लोकव्यवस्थासंस्थापकाः न तूक्तगुणरहिता इत्यर्थः । एवं भूतास्तु विद्वांस एव नत्वन्य इति हृदयम् ॥

जाड्यं धियो हरति सिञ्चिति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्संगतिः कथय किं न कराति पुंसाम् ॥ २० ॥

  •   व्या.--- इत्थं विद्वज्जनाननुवर्ण्य संप्रति सत्संगतेश्श्रेयस्करत्व-

माह.----जाड्यमिति..-धियः बुद्धेर्जाड्यं मान्यम् । हरति निरस्यति । वाचि वचने। सत्यं सूनृतभावम्। सिञ्चत्याप्लावयति। मानोन्नतिं बहुमानातिशयम् । दिशति प्रयच्छति। पापं किल्विषमपाकरोति