पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
वैराग्यशतक


सति - बहिर्मुखत्ववैमुख्येन स्वस्थान एष स्थिते सतीत्यर्थः । स्वयं स्वप्रयत्नं विनैवेत्यर्थः । उदितः आविर्भूत - श्चिन्तामाणि गणः चिन्ता रत्ननिचयरूप हत्यर्थः-एवमेव चिन्तामणिरशेषाभिलषितदानसमर्थ . स्तद्गुणच किं वक्तव्य इतिभावः। विविक्तो निष्कलङ्कः । सङ्कल्पः इच्छाविशेषः। ते तवाभिलषितं वाञ्छितं न पुष्यति किं - न पूरयति किं - पूरयत्येवेत्यर्थः - अथवा किं वाऽभिलषितं न पुष्यति सर्वमपि पुष्यत्येवेत्यर्थः । अतः आत्मप्रसत्त्यैवाभिलषितप्राप्तौ किमन्य- प्रसादनायासेनेत्यर्थः। अन्यथा सर्वक्षेत्रं विहायारण्यकर्षणन्यायः प्रसज्येतेति तात्पर्यम् ।।

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा।
अतीतमननुस्मरन्नपि च भाव्यसङ्कल्पय-
न्नतर्कितसमागमाननुभवामि भोगानह्वम् ॥

 व्या.----एवं मनः प्रसादे गुणमुक्त्वा तस्यागुणत्वमाह । परि - भ्रमसीति. हे चित्त । मुधा व्यर्थं । किं किमर्थं । परिभ्रमसि संचर- सि-न संचरितव्यमित्यर्थः - प्रयोजनाभावादिति भावः । तर्हि किं कर्तव्यमत आह - कचन कुत्रचित् - स्थले । विश्राम्यतां स्थीयतां - खस्थान एव स्वैरं वर्ततामित्यर्थः । नन्वेवंचेत्कथं कार्यसिद्धिरित्यत आह - यत्कार्यं। यथा येन प्रकारेण भवति तत् । तथा । स्वयमप्रय' - न्नेनैव भवंति अन्यथा वैपरीत्येन। न भवति - ‘यद्भावि तद्भवत्येवे ' त्यादिवचनात्सर्वमेतत् दैवायत्तमिति भावः - अतो विश्रम्य - तामिति सम्बन्धः । विश्रमे किं फलमित्यत आह - अहम् । अती -