पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
left२९०
वैराग्यशतके


दुर्विगाहत्वादेतद्रूपणं। विरम - विरामं प्राप्नुहि - अत्यन्तदुःखवि - षयासक्तिं माकुर्वित्यर्थः * 'जुगुप्सा विरामे' त्यादिना पञ्चमी -

  • व्याङ्परिभ्यो रमः' इति परस्मैपदं। किंतु क्षणात् क्षणमात्रे -

गैव। अशेषदुःखशमनमेकविंशतिमहादुःखविध्वंसनमेव - व्यापार- स्तत्र दक्षं समर्थं । श्रेयोमार्ग ज्ञानमार्गम् । आश्रय अनुसर - तत्र प्रवर्तस्वेत्यर्थः । तथा स्वात्मीभावं स्वरूपानुसधानतत्परत्वम् । उपैहि - प्राप्नुहि। तथा। निजां स्वकीयां . 'चञ्चलं हि मनः कृष्णे' त्यादौ प्रसिद्धामित्यर्थः । कल्लोलवल्लोला मतिचलां । गतिं व्यापारं ; संत्यज सम्यग्विसृज्य सुस्थिरं भवेत्यर्थः। भूयः पुनरपि भङ्गुरा भङ्ग - शीलामशाश्वतीं। भवरति संसारासक्तिं मा भज मा सेवस्व । किं- स्वधुनेदानीं । प्रसीद प्रसन्नं भत्र । चित्तप्रसादमन्तरा पुण्यशतैरपि - श्रेयः प्राप्त्यसम्भवादिति भावः ॥

मोहं मार्जय ता मुपार्जय रति चन्द्रार्धचूडामणौ
चेतस्स्वर्गतरङ्गिगीतटभुवामासङ्गमङ्गीकुरु।
को वा वीचिषु बुद्बुदेषु च तटिल्लेखासु च श्रीषु च
ज्वालाग्रेबु च पन्नगेषु च सरिद्वेगेषु च प्रत्ययः॥ ६४

 गव्या.---अथ विश्वसनीयष्वेव विश्वासं कुरु नान्यत्रेत्याह - मोहमिति. हे चेतः । मोहं पुत्रमित्राद्यासक्तिजनकाज्ञानं । मार्जय, शोधय - त्यजेति यावत् - तत्र विश्वासं माकुर्वित्यर्थः । किं तु चन्द्रा- र्धं चूडामणिर्यस्य तस्मिन् चन्द्रशेखरे शंभौ। तां तथाभूतामनिर्वा- च्यामित्यर्थः । रतिमनुरक्तिमुपार्जय संपादय । तथास्वर्गतरङ्गिण्या - मन्दाकिन्याः यास्तटभुवस्तीरप्रदेशास्तासामासाङ्गं तत्र नवा .