पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१.
मनस्संबोधननियमनम्


सासक्तिम् । अङ्गीकुरु अनुमन्यस्व - उभयत्रैव विश्वासं कुर्वित्यर्थः - एतस्यैव श्रेयस्करस्वादिति भावः। कुत एतदित्याशक्यान्यत्राविश्वासो- त्पादनार्थः मस्वरसमुद्भावयति - वीचिषु वारितरङ्गेषु च। बुद्बुदेषु जलस्फोटेषु च। तटितो लेखा इव तासु च विद्युल्लतासु च श्रीषु संपत्सु च-तटिल्लेखामतल्लीषुचे' ति पाठे, प्रशस्तास्तटिल्लेखास्तटिल्लेखामत - ङ्कयः - तासु च * 'प्रशंसावचनैश्चेति नित्यसमासः - 'मतल्लिका - मचर्चिका प्रकाण्डमुद्धतल्लजावि' त्यमरः । ज्वालाग्रेश्वग्निशिखा . मुखेषु च । पन्नगेषु सर्पेषु च सुदृद्वर्गेषु च बन्धुजनसमुदायेषु च । को वा प्रत्ययः - उसरोत्तरं तारतम्येन नश्वरतया प्रत्यक्षसिद्धेषु विचि त्रसंस्थितिषु चतुर्षु । गृहदीप इति — चुम्बनकरणे श्मश्रुदाह' इति लोकन्यायेन च प्रत्यक्षेण च दाहहेतुतया प्रसिद्धषु ज्वालाग्रेषु च। स्पृष्ट- तया प्राणहर्तेषु पन्नगेषु च। विपत्सु परित्यागशीलेषु बन्धुजनेषु च। को वा विश्वासः न कोऽपी त्यर्थः - उत्तरोत्तरमविश्वसनीयत्वादिति- भावः - नि. 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतु ष्वि' त्यमरः ॥

  अत्र प्रस्तुतानां स्वबन्धुजनानामप्रस्तुतानां वीचीप्रभृतीनां ष यथाकथञ्चिदौपम्यस्य गम्यमानत्वाहीपकालंकारभेदः - तदुक्तं - विद्यानाथेन -

'प्रस्तुताप्रस्तुतानां च सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते' ।। इति ॥


चेतश्चिन्तय मा रमां सकृतिनामस्थायिनीमास्थया
भूपाल भ्रूकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।