पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
वैराग्यशतके


र्वसंघटनधतुरा ये कवयः कवयितारस्ते च । तथा । पश्चात् पृष्ठभागे चामराणि प्रकीर्णकानि - गृहन्तीति चामरग्राहिण्यः - तासां वाल- व्यजनवीजनतत्पराणां - रमणीनां - नि. 'चामरं तु प्रकीर्णक मित्य मरः । लीलया वीजनवैचित्र्यविलासेन - यद्वलयरणितं माणिकङ्कण । झणत्कार स्तश्चेत्येतत्सर्व * नपुंसक मनपुंसकमि' त्यादिना नपुं- सकैकशेषः । एवमुक्तप्रकारेणास्ति यदि वर्तते चेतर्हि । भवे संसारे यो रसस्तस्यास्वादने अनुभवे - लम्पटत्वं लोलुपत्वं कुरु। तदा - सक्तं भवेत्यर्थः - नि. - लोलुपो लोलुभो लोलो लालसो लम्पटश्च- स' इति यादवः । नो चेदेवं नास्ति चेत्सहसा अविलम्बेनैव * 'स्वरादिपाठादव्ययत्वमिति शाकटायनः। निर्विकल्पे निरातङ्के। समाधो ध्याने प्रविश ब्रह्मध्याननिष्ठं भवेत्यर्थः। किमन्यथोम, यभ्रंशहेतुना वृथादैन्येनेति भावः ।। मन्दाक्रान्तावृत्तम् ।।

प्राप्ताः श्रियस्सकलकामदुधास्ततः किं
न्यस्त पदं शिरसि विद्विषतां ततः किम् ।
संपादिताः प्रणयिनो विभवै स्ततः किं
कल्पं स्थिताः तनुभृतां तनवस्ततः किम् ॥ ६७

 व्या.---अथ विचार्यमाणे संपत्तिलाभशत्रुजयादीनामप्य - किंचित्करत्वमेवेत्याह - प्राप्ता हति. ---हे चेतः तनुभृतां शरीरिणां । सकलकामान् दुहन्तीति सकलकामदुघाः अशेषमनोरथपरिपूरकः इत्यर्थः। श्रियः प्राप्ताः । ततः किम् । तथा विद्विषताममित्राणां के 'द्विषोऽमित्र' इति शतृप्रत्ययः। शिरसि पदं । न्यस्तं निक्षिप्तम् - परा- क्रमातिशयेन सर्वे शत्रवः पादाक्रान्तीकृता इत्यर्थः। ततः किम् ? विभ