भवन्ति प्रतिभान्ति । तेषामेव योग्या: तेन मादृशनामिति प्रती-
यन्त इत्यर्थः। भुवनाधिपत्यादीनामेवं प्रतीयमानत्वे किमुतान्येषा -
मिति भावः - तदानीं तव तृणीकृतब्रह्मपुरन्दरस्वात्सर्वेऽपि तुच्छा -
एव प्रतिभान्तीति परमार्थः - यद्वा ननु सर्वथा भोगजातमेव ममा -
भिलषितं नान्यदिति यदि मन्यसे तदा इत्थंभूतस्य तव सर्वे भुवना-
धिपत्यादिभोगाअनुषङ्गात्स्वयमेव सम्भवन्तीति समाधानमभिप्रेत्याह-
हे चेतः । तत् सकलवेदान्तप्रसिद्ध - यद्वा - तच्छब्दलक्ष्यार्थभूत -
मित्यर्थः । तत्वमसी'ति महावाक्ये तथा व्याख्यानादिति भावः ।
ब्रह्मचिन्तया चिन्तनफलमाह-यस्य ब्रह्मचिन्तनतत्परस्य। ते कृपणलोक-
मता इमे भुवनाधिपत्यभोगादयः । अनुषङ्गिणः भवन्ति अनुषङ्गा -
स्वयमेव सम्भवन्तीत्यर्थः - ब्रह्मध्याननिष्ठासाम्राज्यलक्ष्मीपतेः किं ते
दुर्लभमिति भावः-शेषं समानम् - यद्वा यस्य ब्रह्मचिन्तनस्य इमे भुव
नाधिपत्यादयः अनुषङ्गिणः अनुबन्धिनः भवन्ति - तथाच सति
ब्रह्मचिन्तने तदनुबन्धवशात्सर्वेऽपि स्वयमेव सम्भवन्तीति भावः ;
अत्र · शिखाते वर्धते नूनं गुळूचीं पिबशाबके ' ति शास्त्रवचन मनु-
सृत्य तात्पर्यान्तरेणैवं समाहितनित्यनुसन्धेयम् ; कृपणलोकमता
इत्यत्र यद्यपि * मतिबुद्धी त्यादिना वर्तमानार्थेक्तप्रत्यये क्तस्य
च वर्तमान' इति षष्ठीसमासनिषेधः - तथाऽपि निरङ्कुशाः कवयः
इत्यलम् ॥
पातालमाविशसि यासि नभो विलङ्घ्य
दिङमंडलं भ्रमसि मानस चापलेन।