पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
नीतिशतके

माशयति - धर्मोपदेशादिनेति भावः । तथा चेतः। प्रसादयति निर्मलयति - ज्ञानोपदेशादिनेति भावः। दिक्षु दशसु कीर्तिम् । तनोति विस्तारयति। अतस्सत्संगतिस्सजनसमागमः । पुंसां कि श्रेयो न करोति कथयेति पृथग्जनसंबोधनम् - सर्वमपि श्रेयः करो- त्येवेत्यर्थः ; अतस्तैरेव संगतिः कर्तव्या न तु दुर्जनैरिति तात्पर्यम् ॥

 अत्र क्रियाणां बहूनां समुच्चितत्वात्समुच्चयालंकारः - 'गुण- क्रियायौगपचं समुच्चय उदाहत' इति लक्षणात् ।। वसंततिलकावृत्तं - लक्षणं तूक्तम् ॥

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति तेषां यशःकाये जरामरणजं भयम् ॥ २१ ॥

 व्या.- अथैतेषा मसाधारणमहिमास्पदत्वाल्लोकोत्तरस्वं वर्ण- यनिगमयति.---जयन्तीति.---सुकृतिनो धन्याः - नि -- 'सुकृती पुण्यवान धन्य' इत्यमरः । रससिद्धाः सिद्धशृङ्गारादिरसाः सिद्ध- पारदधुटिका श्च ॐ वाऽऽहिताग्न थादिष्विति निष्ठायाः परनिपातः। ते प्रसिद्धाः पूर्वोपवर्णिता वा। कवीश्वराः कविसार्वभौमाः पण्डि. तोत्तमा इति वा। जयन्ति सर्वोत्कग वर्तन्ते - अद्याऽपीति शेषः : यद्वा • रससिद्धाः सिद्धरसाः - ब्रह्मसाक्षात्कारवन्त इत्यर्थः - रसो बैस' इति श्रुतेः।

 शृङ्गारादौ विषे वीर्ये पारदे ब्रह्मवर्षसे।
वेतस्यास्वादने हेन्नि निर्यासेऽमृतशब्दयो:--रसः ॥

इत्यभिधानाच । कवीश्वराः - कवयः क्रान्तदर्शिन - स्तेषा मीश्वराः कालनयाभिज्ञा ब्रह्मविद्याविशारदा इत्यर्थः। जयन्ति । कुत स्तेषां