पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
वैराग्यशतके


प्रवेश: - तस्य - कलने एक केवलं - नि. एके मुख्यान्यकेवलाः' इत्यमरः । मुक्ता विहाय। शेषैः उक्तेभ्यः अन्यैः वणिग्वृतिभिः वर्तकव्यापारसदृशैः न किमपि प्रयोजनम्। आत्मज्ञानं विना उक्तानां वेदादीनामध्ययनादिभिरपि फलं नास्ती त्यर्थः । सर्वेषां' वेदान्तवाक्यानां ब्रह्मणि तात्पर्य मित्युक्तरीत्या ब्रह्मज्ञानमेव संपाद- नीयं नत्वितरदित्याशयः ;

यतो मेरुश्रीमान्निपतति युगान्ताग्निवलितः
समुद्राश्शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ।। ७२

  व्या...---अथातिरिक्तस्यानित्यत्वमेव प्रपञ्चयति-यत इति---- यतो यस्मात्कारणात्। श्रीमान् मणिहिरण्यादि सकलवस्तुसमृद्धिमान् । मेरुः मेरुगिरिरपि। युगान्ताग्निना प्रळयकालानलेन - वळितस्सं - वेष्टित स्सनिपतति विशिष्ठाग्निसंपर्कान्निलीनो भवतीत्यर्थः। तथा प्रचुराः प्रभूताः - मकरानक्राः - ग्राहा जलग्राहाश्च तेषां - निलया: समाश्रयासमुद्रास्सप्तसागराश्च । शुष्यन्ति शोषं प्राप्नुवन्ति । तथा । घरन्तीति धरा! * पचाद्यच्-धरण्याः धराः महेन्द्रादि सप्तकुला - चला स्तेषां - पादैः प्रत्सन्तपर्वतैः - नि. पादाः प्रत्यन्तपर्वता' इत्यमरः। धृता सम्यगवष्टब्धा । धरा भूमिश्च । अन्तं नाशं पाता। लं वा। गच्छति प्राप्नोति - उभयत्रापि प्रळयाग्निमेळनादेवेति भावः। तस्मात् कारणात् * यत्तदोर्नित्यसंबन्धात् । करिकलभस्य करिपो. तस्थ - कर्णाग्रं कर्णाञ्चलं - तद्वच्चपले । शीर्यत इति शरीरे । का वार्ता