पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
नित्यानित्यवस्तुविचारः


यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥ ७५

 व्या...-अतः दुरवस्थाक्रान्तेः पूर्वमेव श्रेयस्संपादनार्थ यत्न: कर्तव्यः नान्यथेति सदृष्टान्तमाह - यावदिति.---यावत् यावत्पर्यन्त मिदमेतच्छरीरं। स्वस्थं पीडारहित। भवतीति शेषः - एवमुत्तर- त्रापि । तथा । यावत् न विद्यते रुजा रुग्यस्य तत्तथोक्तम् - आरो- ग्ययुक्तं भवति - नि. ' स्त्री रुग्रुजा चोपताप' इत्यमरः - यद्वा - अरुजं सत् - स्वस्थमविकलं - भवति । तथा। यावज्जरा दूरतः - दूरे भवति - वार्धकदशा यावत्पर्यन्तं नाक्रामतीत्यर्थः । तथा यावदि- न्द्रियशक्तिश्चक्षुरादीन्द्रियपाटवं च । अप्रतिहता अखण्डिता भवति। यावदायुषः क्षयो नाशो न भवति। तावत्तावत्पर्यन्तमेव तन्म - ध्यकाल एवेत्यर्थः। वेत्तीति विद्वान् - तेन विदुषा अभिज्ञेन * विदेश्शतुर्वसु' रिति वसुप्रत्ययः। आत्मनः - श्रेयसि विषये - मोक्षप्राप्तावित्यर्थः। महान् फलजननपर्याप्तत्वेन पूज्यः । प्रयत्नः ज्ञान वैराग्यतपस्सम्पादनोद्योगः। कार्य:; ननु कोऽयं नियमः १ अवसा - नेऽपि प्रयत्नस्य कर्तुं युक्तवादित्याशङ्कयावकाशाभावान्न युक्त 'इति व्यतिरेकदृष्टान्तमाह - भवने गृहे संदीप्ते अग्निना दह्यमाने सति। कूपखननं प्रति कूपनिर्माणं प्रति उद्यमः प्रयत्नः । कीदृशः कीदृग्वि- धः - न युुक्त इत्यर्थः - अवकाशाभावादिति भावः । गृहदाहवेळायां कूपखननप्रयत्न इव अवसानकाले श्रेयःप्राप्त्यर्थोद्यमोऽपि न युज्यत