पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
नित्यानित्यवस्तुविचारः
३०७


कोपोपाहितबाष्पविन्दुतरळं रम्यं प्रियाया मुखं
सर्वं रम्य मनित्यतामुपगते चित्ते न किंचित्पुनः॥ ७९

 व्या.----अथ चित्तस्य नित्यानित्यवस्तुविवेके सति रम्यमपि सर्वमरम्यमेव प्रतिभातीत्याह द्वाभ्याम् - रम्या इति.-चन्द्रमरी - चयश्चन्द्रकिरणारम्याः रमणीयाः - उद्दीपकत्वादिति भावः । तथा। तृणवती शाद्वलप्राया। वनान्तः स्थली वनमध्यभूमिः । रम्या रन्तुं योग्या * ' जानपदे' त्यादिना अकृत्रिमार्थे क्लीप्। तथा। साधु - समागमात् सञ्जनसहवासादागतं प्राप्तं - यत्सुखं । तदपि । रम्यं कवयति वर्णयतीति कविः . तस्य कर्म काव्यं - * ब्राह्मणादित्वात् ष्यञ् - तस्य पङ्कजादिवद्रूढत्वाद्रसोल्लसितशब्दार्थसंघटनमर्थः न कर्ममात्रं - तथा च काव्येदूक्तप्रकारेषु काव्यनाटकादिषु । कथा: श्रव्यवाचः उपाख्यानानि वा। रम्या मनोहराः । तथा! कोपोपा • हिताः प्रणयकलहादिषु क्रोधवशादुत्पन्ना - ये - बाप्पबिन्दवः अश्रु- कणास्तैः - तरळम् आविलं प्रियाया मुखं रम्यम् । अतस्सर्व - मपि रम्यमुक्तरीत्या सकलमपि मनोहरमेव । किंतु । चित्ते मनसि। अनित्यतां नित्यानित्यवस्तुविचारतत्परतामित्यर्थः । उपगते सति । किंचिदपि । रम्यं न भवति - ब्रह्मानन्दं विनेति शेषः ॥

रम्यं हर्म्यंतल न किं वसतये श्राव्यं न गेयादिकं
'किं वा प्राणसमागमागमसुखं नैवाधिकप्रीतये ।
किं तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपांकुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ ८०