पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
वैराग्यशतके


 व्या.----उक्तमेवार्थं विवृण्वन्निगमयति - रम्यमिति.--हर्म्य तलं प्रासादोपरिप्रदेशः । वसतये निवासाय । न रम्यं किं - रम्यमे- वेत्यर्थः । तथा। गेयं गानं * भव्य गेये ' त्यादिना कतरि निपातः, - तदादिः यस्य तत्तथोक्तं - आदिशब्देन वीणावादनादिकमपि । संगृह्यते * 'शेषाद्विभाषे' ति कप्प्रत्ययः । न श्राव्यं किं श्रोत्रसुखा वहं न किं - श्राव्यमेवेत्यर्थः । तथा। प्राणसमायाः प्राणप्रियनायि - कायास्समागमेन संभोगेन - यत्सुखं तच्च । अधिकपीतये अत्य - न्तसंतोषाय । नैव भवति कि? भवत्येवेत्यर्थः । किंतु । सन्तः वस्तुविचा- रतत्परपुरुषाः । सकलमशेषं - हर्म्यतलनिवासादिकमपि । भ्रान्तः पतनेच्छया परिभ्रमन् - यः - पतङ्गशलभः - नि. पतङ्गशलभे भाना विति विश्वः - तस्य - पक्षयोः पवनेन गरुतोः वायुना - 1 व्यालोलोऽतिचञ्चलो - यो दीपाङ्कुरो दीपकलिका - तस्य • छाया कान्तिस्तद्वचञ्चलं तरळं नश्वरमित्यर्थः । आकलय्यालोच्य । वनान्तं वनमध्यं । गताः शाश्वतब्रह्मानन्दसाधनतपश्चर्यार्थमिति भावः ॥

॥ इति वैराग्यशतके नित्यानित्यवस्तुविचारः संपूर्ण: ।।

॥ शिवार्चनम् ॥
आसंसारं त्रिभुवनमिदं चिन्वतां तात ! तादृ-
ङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा।
योऽयं धत्ते विषयकरिणी गाढगूढाभिमान-
क्षीवस्यान्तःकरणकरिणस्संयमालानलीलाम् ॥ ८१