बाह्यदेशे मन्दस्पन्दं मन्दप्रसारम् - अन्तर्मुखत्वादिति भावः। मनो-
ऽप्यन्तः करणं चेति यदेतत्सर्वं वर्तत इति शेषः * ' नपुंसक मन-
पुंसके नैकवच्चे' त्यादिना एकशेषः * एषेति विधेयप्राधान्यात् -
स्त्रिलिङ्गता - शैत्यं हि यत्सा प्रकृति र्जलस्ये'ति वत्। कस्योदा
रस्य महतस्तपसः परिणतिः परिपाको वा न जाने न वेद्मीत्यर्थः - यद्वा-
परिणतिः परिणामो वा न जाने - किंवा तपः एवंरूपेण परिणतं तन्न
जानामीत्यर्थः । कथंभूतस्सन्नपि - चिरस्य चिरकालमित्यर्थः । विमृ-
शन् परामृशन्नपि - नि. चिराय चिररात्राय चिरस्याद्याश्चिरार्थका'
इत्यमरः विभक्तिप्रतिरूपकमव्ययं; तञ्च तपश्शिवपूजनमेव - कथ
मन्यथाऽस्येदृक्फलसाधने एवंविधपरिणमने वा सामर्थ्यं संभवेदिति
भावः॥
जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च बन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाऽभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ! ज्ञातं मदनान्तकाङ्घ्रियुगळं मुक्त्वाऽस्ति नान्या गतिः॥
व्या------अथ शिवचरणमेव शरणमिति स्मरणमभिनीयाह - जीर्णा इति - मनोरथा विषयाभिलाषाश्च हृदये अन्तरङ्ग एव। जीर्णाः नष्टाः - वाञ्छामात्रमेव न त्वनुभूता इत्यर्थः । तथाऽङ्गेषु । स अवयवेषु तत्तथाभूतं - कामिनीसंभोगोपयुक्तमित्यर्थः । यौवनं । यातं इत्यगलितं । हन्तेति विषादे। तथा । गुणज्ञागुणग्राहिणस्सहृदया इति कत्यावत् - तै र्विना * 'पृथग्वि ने' त्यादिना तृतीया। गुणा विद्या विनयादयश्च । वन्ध्यफलतां निष्फलतां याता गताः - अनुभावका-