भावान्निरर्थका जाता इत्यर्थः । तथा बलवान् बलिष्ठः-दुर्जयइत्यर्थः ।
काल̠ कालस्वरूप अपरावर्त्य इति यावत् । अक्षमी असहनश्च ।
कृतान्तो यम स्सहसाऽभ्युपैति अभियुङ्क्ते - प्राणापहरणार्थमिति -
भावः - नि. 'कृतान्तौ यमसिद्धान्तावि' त्यमरः अतः किं । युक्त -
मुचित्तम् - ईदग्दशायां किं कर्तव्यमित्यर्थः । हा कष्टं - तथाऽपीद
मेकं तरणसाधनमस्तीति स्मरण ममिनीयाह । ज्ञात मवगतं किं ज्ञात-
मित्यत आह - मदनान्तकस्य शंभोः - अङ्घ्रियुगळं पादयुग्मं । मुक्त्वा
विहायान्या गति श्शरणं। नास्ति । अतस्तदेव श्रयणीयमिति -
भावः ॥
महेश्वरे वा जगता मधीश्वरे जनार्दने या जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्ति रस्ति मे तथाऽपि भक्तिस्तरुणेन्दुशेखरे॥
व्या.----ननु -
'यत्पादनिस्मृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्नयधिकृतेन शिवः शिवोऽभूत् ।
ध्यातुर्मनश्च कुलशैलविसृष्टवज्रं
ध्यायेच्चिरं भगवत श्चरणारविन्दम् ।।
इत्यादिना शिवायशेषदेवताकल्याणप्रदे अखिललोकाराध्ये संसारा- र्णव तरणयानपात्रे भगवतश्चरणारविन्दे जाग्रति कथं शिवाङ्घ्रियुगळं विनाऽन्या गतिर्नास्तीति प्रलपसि इत्याशङ्कयाह - महेश्वर इति.-- जगतां चतुर्दशभुवनाना मधीश्वरे स्वामिनि । महेश्वरे शिवे वा । तथा जगता मन्तरात्मनि अन्तः करणसाक्षिणि - अन्तर्यामिणीति वा - अथवा अन्तर्भूतात्मनि जीवात्मस्वरूपे अविद्याप्रतिबिम्बित -