पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
वैराग्यशतके


वचांसि आक्रन्दवचनानि येषां ते तथोक्ताः - ' आर्तवचस' इति पाठे दैन्यवधनास्सन्तः । कदा कस्मिन्वा समये । अन्तरभ्यन्तरे - गताः नियमनवशादन्तर्लीना इति यावत् • बहुळाश्च - ये बाप्पा आनन्दा- श्रूणि • तैराकुला - या दशा अवस्था तां यास्यामः अन्तर्नियमिता - नन्दबाष्पपर्याकुलावस्था कदा गमिष्याम इत्यर्थः - 'दशमि' ति पाठे बाष्पाकुला था दृग्दृष्टिस्तां यास्याम - इत्यन्वयः - 'कदा स्यामा नन्दोद्गतबहुळबाष्पाकुलदृश' इति पाठे - आनन्दादुद्गता उत्पन्ना ये बहुळ बाष्पाः तैराकुला दृशो येषां ते तथोक्ताः कदा स्याम भवेम । तदनीं खलु वयं कृतकृत्या इति भावः ।।


वित्तीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरतस्संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणा-
स्त्रियाना नेष्यामो हरचरणचिन्तैकशरणाः ॥ ८३

 व्या.--वितीर्ण इति - सर्वस्वे निखिलधने। वितीर्ण दत्ते - अर्थिसात्कृते सति - नि. 'स्वो ज्ञातायात्मनि स्वे त्रिष्वात्मीय स्वो- स्त्रियां धन' इत्यमरः । ततस्तरुणा प्रत्यया - या करुणा भूतदया . तया - पूर्णानि पूरितानि - हृदयानि येषां ते तथोक्ताः। तथा । सं- सारे । विधिगतिं दैवप्रवृत्तिं । विगुणपरिणामां विषमपरिपाकाम् - अकुशलपर्यवसायिनीमिति यावत् । स्मरन्तस्सन्तः मनस्यनुसंदधाना - स्सन्तः वयं। पुण्यारण्य तपोवने। हरचरणचिन्ता शिवपादारवि - न्दद्ध्यानमेवैकं मुख्यं - शरणं रक्षणे - येषां ते तथोक्तास्सन्तः । परिणताः परितो व्याप्ताः शरश्चन्द्रकिरणाश्शारदेन्दुमयूखा यासु ता-