पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
शिवार्चनम्


समुत्पन्नं दुःखं । कदा मोक्ष्ये - तथा मामनुगृहाणेत्यर्थः - परमे - श्वरानुग्रहं विना श्रेयोलाभाभावादिति भावः-समकरचरणस्य महा- भाग्यसंपन्नत्वमुक्तं सामुद्रिके -

‘मकरो मत्स्यरेखा च पद्म शङ्खाकृतिः पदे ।
महाधनी महाभोगी दाता दीर्घायुरेव च '॥ इति ॥


एकाकी निस्पृहश्शान्तः पाणिपात्रो दिगम्बरः।
कदा शम्भो ! भविष्यामि कर्मनिर्मूलनक्षमः ।। ८९

 व्या.--एकाकीति.----एकाकी असहायः - सङ्गरहित इति. यावत् - ' सङ्गात्संजायते काम' इत्यादिसङ्गजनित कामादि - परम्पराया: अनर्थहेतुत्वादिति भावः एकादाकिनिच्चासहाये' इत्याकिनिय् प्रत्ययः। कुतः - निःस्पृहः विषयाभिलाषशून्यः । अतएव । शान्ता रागाद्यनुपहतचित्तः - शान्तो दान्त उपरतस्तितिक्षु- स्समाहितो भूत्वा' इति श्रुतेः । अतः पाणिरेव पात्रे यस्य स तथोक्तः । तथा दिश एवाम्बराणि यस्य स तथोक्तत्सन्नहमिति शेषः। हे शम्भो कर्मणां संचितप्रारब्धानां - निर्मूलने समूलविध्वंसने - क्षमस्समर्थः । कदा भविष्यामि कर्मबन्धात्कदा मोक्ष्ये इत्यर्थः -

'भिद्यते हृदयग्रन्थि श्छिद्यन्ते सर्वसंशयाः ।
श्रीयन्ते चास्य कर्माणि । तस्मिन् दृष्टे परावरे'। इति ।।

ईश्वरसाक्षात्कारमन्तरा कर्मक्षयाभावात्तदर्थं त्वं प्रत्यक्षो भवेति भावः ॥

पाणिं पात्रयतां निसर्गशुचिना भक्षेण संतुष्यतां
यत्र काऽपि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।