पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
वैराग्यशतके


अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा-
मध्वा कोऽपि शिवप्रसादसुलभस्संपत्स्यते योगिनाम् ॥ ९०

 व्या..--अथैवंभूतानां शिवप्रसादान्मोक्षमागोंऽविलम्बेनैव . सुलभो भवतीति निगमयति - पाणिमिति - पाणि करतल मेव - पात्रं भोजनभाजनं कुर्वतां पात्रयतां के पात्रशब्दा त्तत्करोतीति ण्यन्ता- ल्लटश्शत्रादेशः । निसर्गशुचिना स्वभावपरिपूतेन । भैक्षेण भिक्षाकदम्ब केन। संतुष्यतां संतोषं प्राप्नुवतां * 'भिक्षादिभ्योऽण्' ।। -- भैक्षं भिक्षाकदम्बक मि' त्यमरः - यत्र क्वाऽपि यस्मिन् कस्मिन् प्रदेशे - इमशाने वने वेत्यर्थः । निषीदतामुपविशतां मुहुः पौनः पुन्येत् । विश्वं प्रपञ्चं। बहुतृणमीषदसमाप्तं तृणं - तृणकल्पमित्यर्थः 'विभाषा सुपो बहुच्पुरस्तात्तु' इति बहुप्रत्ययः * प्रकृतेः पूर्व भवति - ' स्यादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गक' इति प्रकृति- वचनात्प्रकृतिलिङ्गता। पश्यतामाकलयतां । तथा। तनारत्यागेऽपि देहसंबन्धशून्यत्वाभावेऽपि । अखण्डोऽपरिच्छिन्नो - यः परमानन्दो- ब्रह्मानन्दस्तस्यावबोधमनुभवं - स्पृशन्ति अनुभवन्तीति तथोक्तानां - जीवन्मुक्तत्वादिति भावः * स्पृशोऽनुदके क्विन्प्रत्ययः । योगिनां ध्याननिष्ठानां । शिवप्रसादेन - सुलभस्सुलभ्यः - कोऽप्यनिर्वाच्यः । अध्वामोक्षमार्ग इत्यर्थः - संपत्स्यते संपन्नोभवति ॥

॥ इतिवैराग्यशतके शिवार्चनं संपूर्णम् ॥


|| अवधूतचर्या ।।

कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने बने ।