किमर्थ त्वमस्माकमिति भावः । अत्रपलाशपत्रपुटिकायास्सद्यस्स्यूत -
त्वकथनमविशदत्वद्योतनार्थम् अन्यथा भिक्षाहरणानुपयुक्ता स्यादिति
वेदितव्यं - तथा-' पलाशं पद्मपत्रं चे' त्यादिवचनात्पवित्रीकरण-
योग्येषु पलाशपत्रेषु निक्षिप्तसाधारणानादीनामपि पवित्रत्वं किमुत
निसर्गशुचि भिक्षावस्तूनामिति चावगन्तव्यम् ।।
महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तश्शेते मुनिरतनुभूतिर्नृप इव ।।९४
व्या....अथ योगिनस्सार्वभौमसाम्यमाह - महाशय्येति.----. पृथ्वी भूमिः । महाशय्या विशङ्कटपर्यङ्कः मही शय्या पृथ्वी' ति पाठे • पृथ्वी पृथुः * 'वोत्तो गुणवचना' दिति ङीष् - मही- शय्या नि. गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मदिनी मही'त्यमरः भुजलता बाहुवल्ली विपुलं विस्तीर्ण मुपधानं 'उपधानं तूपवर्हमित्यमरः। आकाशं च । वितानमुल्लोचः - नि. 'अस्त्री वितानमुल्लोच 'इत्य - मरः । अयं प्रतिमानोऽनुकूलः । अनिलः पवनः । व्यजनं ताळवृन्त- कमित्यर्थः । “व्यजनं तालवृन्तकमि "समरः । शरच्चन्द्रो दीपः-शर- द्रहणं चन्द्रस्य प्रकाशातिशयद्योतनार्थं । इत्येतत्सर्वमयन्नसिद्धमप- रिच्छिन्नं चेत्यर्थः - प्रसिद्धं तु नैवभूतमिति भावः । स्वयं विरतिर्वि- रक्तिरेव वनिता - तस्यास्सङ्गेन-मुदितस्संतुष्टः। अत एव । सुखी आनन्दपूर्णः। शान्तश्शमशीलो मुनिः -