पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
अवधूतचर्या


 'निवृत्तस्सर्वतत्त्वज्ञः कामक्रोधविवर्जितः।
 ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनिः' ॥
इत्युक्तलक्षणः कश्चिद्योगीश्वरः । अतनुभूतिरखण्डितैश्वर्यसंपन्नो नृपस्सार्वभौम इव । शेते स्वपिति - निरातङ्कं निद्रातीत्यर्थः ।।

 रूपकसंकीर्णोऽय मुपमालंकारः ; तथा उपमानान्नृपादुपमे- यस्य मुनेरपरिच्छिन्नशय्यादिसंपन्नत्वेनाधिक्यप्रतीते व्यतिरेको व्य- ज्यत इत्यलंकारेणालंकारध्वनिः ॥

भिक्षाशी जनमध्यसङ्गरहितस्वायत्तचेष्ट स्सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्ण जीर्णवसनस्सम्प्राप्तकन्थासनो ।
निर्मानो निरहङ्कृतिश्शमसुखाभोगैकबद्धस्पृहः ॥ ९५

 व्या.- अथयोगिस्वरूपं निरूपयति - भिक्षेति.---भिक्षा- मश्नातीति भिक्षाशी भिक्षान्नमात्रभोजनेन शरीरधारणतत्पर इत्यर्थः । जनमध्ये-संगरहितः आसक्तिविहीनः-'सङ्गात्संजायते काम' इत्यादि- स्मृतेस्तस्य निदानत्वादिति भावः । किंतु । सदा सर्वदा । स्वायत्ता - स्वाधीना चेष्टा व्यापारो - यस्य स तथोक्तः - स्वच्छन्दविहारनि - रत इत्यर्थः - स्वाधीनात्मीयव्यापारो वा - नि. 'अधीनो निघ्न आयत्त' इत्यमरः। तथा हानादानयोस्त्यागस्वीकारयोः विरक्तः असंकीर्णः यो मार्ग स्तत्र - निरत आसक्तः - नियमेन हेयवस्तु - हानोपादेयोपादानतत्पर इत्यर्थः - यद्वा - हानम् इदं हेयमिति - त्यागः - आदानमिदमुपादेयमिति स्वीकारः . हेयोपादेयबुद्धिशून्य इत्यर्थः - निस्त्रैगुण्ये पथि विहरतां को विधिः को निषेध' इत्या -